________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३
३, ६.७.८.९.] ॥ फिटसूत्राणि ॥ फि० वृ०॥ गुरुरादिर्येषां पकारश्चान्तस्तेषां यशां द्वितीयमुदात्तं भ
वति । कश्यपः कच्छपः शिंशपा । पान्तानामिति किम् । गर्दभः । गुर्वादीनामिति किम् । कुणपः ॥
युतान्यण्यन्तानाम् ॥ ७ ॥ सि. कौ ॥ युत। अयुतम् । अनि । धमनिः । अणि । विपणिः ॥ ल श॥ अयुतमिति । अव्ययपूर्वपदप्रकृतिस्वरे । पा. ६. २. २. ।
प्राप्त इदम् ॥ फि° वृ०॥ युत । अनि । अणि । इत्येवमन्तानां द्वितीयमुदात्तं भवति।
युत। अयुतं प्रयुतम् । अनि। अशनिः धमनिः। अणि । तरणिः अरणिः ॥ मकरवरूढपारेवतवितस्तेक्ष्वाणिद्राक्षाकलो
माकाष्ठापेष्टाकाशीनामादिवी ॥॥ सिकौ ॥ एषामादिईितीयो वोदात्तः । मकरः वरूढ इति ॥ लश॥ द्वितीयो वेति । द्वितीयमित्यधिकारादिति भावः। काशी
नानामिति वक्तव्ये नुडभाव आर्षः। वरूढ इतीति । पारेवतः वितस्ता इक्षुः आर्जिः द्राक्षा कला उमा काष्ठा पेष्टा काशीनम् । केचित्तु मकरवकुठपारेवतेति काष्ठापैष्ट्रेति
पठन्ति । फि• वृ०॥ मकरवरूढपारेवतवितस्तेक्ष्वार्जिद्राक्षाकलो
माकाष्ठापैष्ट्राकशीनामादिवा ॥ मकरादीनामादिवोदात्तो भवति। मकरः वरूढः पारे। वतः वितस्ता इक्षुः आर्जिः द्राक्षा कला उमा काष्ठा पैष्ट्रा काशिः
छन्दसि च ॥९॥ सि को ॥ अमकराद्यर्थ आरम्भः। लक्ष्यानुसारादादिवितीयं वोदात्तं
जेयम् ॥ फि• वृ०॥ छन्दसि विषये मकरादीनामादिवी द्वितीयं वोदात्तो भ
वति । पूर्वत्रोदाहृतम् । छन्दोग्रहणं काश्यपाद्यर्थम् । काश्यपः। अधिकम् । क्रिमिः॥
For Private And Personal Use Only