SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७ २, १९.२०.] ॥ फिटसूत्राणि ॥ एव वृषाकपिशब्दो ऽनेन मध्योदात्त इति वृषाकपि । पा. ४. १. ३७. । इति सूत्रे वृत्तावुक्तम् । खण्डिकादिषूलूकशब्दो ऽनेन मध्योदात्त इति कैयटेन चोक्तम् । वराहशब्दस्तु घृतादिरित्युक्तमेव। न च गुरूणां मध्ये य आदिरित्यर्थो ऽस्त्विति वाच्यं वृषाकप्यादावप्रवृत्त्यापत्त्या वृत्त्यादिविरोधात् । अन्यतो ङीष् । पा. ४. १.४०. । इति सूत्रे सारङ्गकल्माषौ लघावन्त इत्यनेन मध्योदात्ताविति हरदत्तविरोधाच्च । लघावित्यादि किम् । वातप्रमीः सभासंजननं कपाली । नान्तवान्न लघुरन्तोत्र । बहुचः किम् । देवः । गुरुः किम। किसलयम्। कल्याण इति पर्यायेणादिमध्यावुदात्ती। फि वृ? ॥ लघावन्ते वयोश्च बहशो गुरुः ॥ अन्ते लघौ वयोश्च लघोरत्ययोर्बहशो बहुचो बहुस्वरस्थ गुरुरुदात्तो भवति । कोविदारः कच्छदारुः अरमन्तकः हरीतकी श्लेष्मातकः कार्षापण: वृषाकपिः कपालः वत्सरः पूर्वकः । लघावन्त इति किम् । वातप्रमीः। वयोश्चेति किम् । सभासंजननम् । लघाविति किम् । कपाली। बह्वश इति किम् । रातिः । गुरुरिति किम । किसलयम् ॥ स्त्रीविषयवर्णानुपूर्वाणाम् ॥ २०॥ . सि को॥ एषां त्रयाणामायुदात्तः। स्त्रीविषयः। मल्लिका। वर्णः । श्येनी हरिणी । अक्षुशब्दात्पूर्वो ऽस्त्येषां ते चपूर्वीः । तरक्षुः ॥ क्वचित्फित्तौ स्त्रीविषयवर्णनानामवित्यादिपाठः। सो • ऽपि मूले ध्यपूर्वस्य । १. ५. । इति सूत्रे दर्शितः। मल्लिकेत्यस्य प्राप्तिमात्रेणेदमुदाहरणं प्राप्तस्यास्य परत्वान्मादीनां च । ३. ४. । इत्यनेन वाधात् । ललनेत्युदाहार्यम् । न चानेनैव सिद्धे इवान्तस्य स्त्रीविषयस्य । २. २. । इति वर्णानां तण। २. १०. । इति च सूत्रं व्यर्थमिति वाच्यम् । अत्र बहूच इत्यनुवृत्तेर्न दोषः । अत एव श्येनीत्युदाहरणं दत्त्वा हरिणीयुदाहरणान्तरं दत्तम् । धवलादीन्यप्युदाहरणानि । नीलादयस्त्वन्तोदात्ता एवेति बोध्यम् । पिशङ्गसारङ्गकआषा लश०॥ 2. For Private And Personal Use Only
SR No.020553
Book TitlePhit Sutrani
Original Sutra AuthorN/A
AuthorFranz Kielhorn
PublisherLeipzig
Publication Year1866
Total Pages102
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy