SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir ALLAGAARI से कप्पइ वत्थए, नो से कप्पइ तं रयणि तत्थेव उवायणावित्तए ॥६३॥ (२७) इन्चेयं संवच्छरिअं थेरकप्पं अहासुत्तं अहाकप्पं अहामग्गं अहातञ्चं सम्मं कारण फासित्ता पालित्ता सोहित्ता तीरित्ता किट्टित्ता | आराहित्ता आणाए अणुपालित्ता अत्थेगइआ समणा निग्गंथा तेणेव भवग्गहणेणं सिझंति बुझंति मुञ्चति परिनिवाइंति सवदुक्खाणमंतं कल्पौषधवैद्यार्थं च यावच्चत्वारि पञ्च वा योजनानि गत्वा प्रतिनिवर्तितुं स्वस्थानं प्राप्नुमक्षमश्चेत्तदाऽन्तरापि तस्य कल्पते वस्तुं, परं न कल्पते कार्ये जाते तां रात्रि तत्रैवातिक्रमयितुं, यत्राहि वर्षाकल्पादि लब्धं तद्रात्रिं न तत्रैवातिकामयेत्, यदा लब्धं तदैव निर्गन्तव्यमिति भावः। एवं च वीर्याचार आराधितो भवति । इति सप्तविंशी सा०॥ __ अथ प्रागुक्तसामाचारीपालनफलनिरूपिकामष्टाविंशतितमी सामाचारीमाह ६३-इत्येतं-पाक्प्रदर्शितं 'सांवत्सरिक' वर्षारात्रिकं स्थविरकल्पं, यद्यपि किञ्चिजिनकल्पिकानामप्यस्ति, परं सामान्येन तत्, बाहुल्येन तु स्थविराणामेवात्र कल्प इति स्थविरकल्पस्तं 'यथासूत्रं' सूत्रानुसारं, न तु तद्विरुद्धं 'यथाकल्पं यथाऽत्र कल्पो दर्शितस्तथैव, न त्वन्यथा 'यथामार्ग' यथा ज्ञानादित्रयाराधनप्रकारस्तथैव, अत एव 'यथातथ्यं यथासत्यमुपदिष्टं जिनैस्तथा सम्यक्कायेन, उपलक्षणत्वान्मनोवाग्भ्यां 'स्पृष्ट्वा आसेव्य 'पालयित्वा' रक्षयित्वाऽतिचारेभ्यः, शोधयित्वा दूषणापनयनेन शोभयित्वा वा विधिवत्करणेन 'तीरयित्वा' यावज्जीवमाराध्य 'कीर्तयित्वा' अन्येभ्य उपदिश्य, आराध्य यथोक्तकरणेन, न तु वैपरीत्यकरणेन विराध्य, 'आज्ञया' भगवदुपदेशेन | यथा पूर्वेः पालितं तथा अनुपाल्य, सन्त्येके श्रमणा निर्ग्रन्थाः, येऽत्युत्तमया तत्पालनया तेनैव भवग्रहणेन For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy