________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
सम्पादकीय-वक्तव्यम्
अयि सार्वीयसिद्धान्तकल्पतरुकुसुमसौरभवासितस्वान्ताः सज्जनाः ! इह खलु जैनेन्द्रशासने सकलशास्त्रशिरोमणिवेन समग्राभीष्टसम्पादकत्वेन च स्वमहिम्नाऽधरितकामकुम्भ-चिन्तामण्याद्यविकलवाञ्छितसम्पापकवस्तुवातस्य सुविश्रुतस्य दशाश्रुतस्कन्धाष्टमाध्ययनरूपस्यास्य श्रीमत्पर्युषणाकल्पसूत्रस्य को नामाईदुपासकः सकर्णोऽपरिचितः समस्ति ?, प्रत्यब्दं प्रतिस्थळं च साम्प्रतं प्रायः सर्वैरहदुपासकैर्वाच्यमानत्वात् श्रूयमाणत्वाच ।
विहिताः सन्त्यस्योपरि चूर्णि-टिप्पन-निरुक्त-वृत्यन्तर्वाच्यादयोऽनेके व्याख्याग्रन्थाः प्राचीनैराचीनैश्चाप्याचार्योपाध्यायमुनिमतल्लिकाभिः, तेष्वेषा कल्पार्थट्रबोधिनी नाम वृत्तिः पृथगेव स्वस्वरूपं बिभ्रती विद्वज्जनकरकमलेषूपस्थिता भवति ।
सञ्जातः सङ्ग्रहोऽस्या विनयेन्दुसूरीयकल्पटिप्पन-जिनप्रभसूरिसन्हब्धसन्देहविषौषधी-समयसुन्दरीयकल्पलतावृत्याद्याधारेण । सङ्ग्राहकाश्चास्याः प्रवचनप्रभावक-खरतरगच्छनभोनभोमणि-क्रियोद्धारक-धीमन्मोहनमुनीश्वरविनेयविनेयाः स्वर्गीयानुयोगाचार्य-श्रीमत्केशरमुनिमाणिवराः।
प्रोक्ताः सन्त्यत्र त्रयोऽप्यधिकारा नवापि च व्याख्यानानि स्थले स्थले प्रसङ्गोचितानेकग्रन्थोद्धृतसुभाषितादिसंयोजनात्मिकया सुन्दरपद्धत्या पूज्यवरैरेभिर्वादस्थलानि तु प्रायः सर्वांण्यपि सम्पन्नं वर्णितानि, विशेषतो "गर्भस्थ-उदरसत्त्वस्य हरणं-उदरान्तरसतामणं गर्भहरणं" (इति स्थानाजवृत्ती कल्पकिरणावल्यामपि च) "गर्भस्य-स्त्रीकुक्षिसमुद्भूतसत्त्वस्य हरणं-अन्यस्त्रीकुक्षी सामणं गर्भहरणं" (इति प्रव० सारो० वृत्तौ) "गर्भस्य हरणं-उदरान्तरमोचनं" (इति कल्पसुबोधिकायां) "गर्भस्य-श्रीवर्द्धमानरूपस्य हरणं-त्रिशलाकुक्षौ सवामणं गर्भहरणं" (इति कल्पदीपिकायां ) इत्यादिनाऽनेकैावर्णितसत्यखरूपस्य देवानन्दाकुक्षितखिशलाकुक्षौ गर्भाधानतया संस्थापनलक्षणस्य श्रीवीरगर्भापहारस्य "अकल्याणक(अश्रेयो)भूतस्य गर्भापहारस्य" (इति
कल्पकिरणावल्यां) "नीचैगोत्रविपाकरूपस्यातिनिन्द्यस्याश्चर्यरूपस्य गर्भापहारस्य कल्याणकत्वकथनं अनुचितं" (इति कल्पसुबोधिकायां) "गर्भाप*हारोऽशुभः" (इति कल्पसु• टिप्पन्यां ) इत्यादिप्ररूपणलक्षणं सागरान्तवृषाधुपर्श अकल्याणकमतं सर्वाभिमताभियुक्तश्रीमद्भद्रबाहुस्वामि-हरिभद्रसूर्यभयदेव
सूर्यादिवचनदर्शनेन सम्यक्तया निलोंठितः । सुविहितशास्त्रोत्तीर्णमेवैतन्मतमित्यनेकैः शास्त्रप्रमाणहेंत्यक्तिभिश्च सम्यक्साधितम् ।
XXXXXXXXXXXX
For Private And Personal Use Only