________________
Shri Mahavir Jain Aradhana Kendra
www.kobairth.org
Acharya Shri Kailassagarsuri Gyanmandir
वासावासं पजो० अत्थेगइयाणं एवं बुतपुर्व भवइ-'अट्ठो? भंते ! गिलाणस्स' से य वइजा-'अट्ठो' । से य पुच्छियचे-केवइएणं अट्ठो?' से वएजा-एवइएणं अट्ठो गिलाणस्स, जं से पमाणं वयइ से य पमाणओ धित्तवे । से य विनविजा, से य विनवेमाणे लभिजा,IN से य पमाणपत्ते 'होउ अलाहि' इय बत्तवं सिया। से किमाहु ? भंते !, एवइए णं अट्ठो गिलाणस्स। सिया णं एवं वयंतं परो वइजा-पडिगाहेहि अजो!, पच्छा तुमं भोक्खसि वा पाहिसि वा, एवं से कप्पइ पडिगाहित्तए, नो से कप्पड गिलाणनीसाए पडिगाहित्तए ॥१८॥(६)। __ अथ ग्लानप्रायोग्यग्रहणविधिरूपा षष्ठी सामाचारी प्रोच्यते
१८-वर्षावासं पर्युषितानां अस्त्येतत् यदेकेषां वैयावृत्त्यकरादीनां मध्यात्केनाप्येवमुक्तपूर्व भवति, गुरुं प्रतीति शेषः, हे 'भदन्त !' पूज्य ! अर्थोऽस्ति ग्लानस्य ?, ततः 'सच' गुरुवदेत्-अर्थोऽस्ति । ततो वैयावृत्त्यकरेण स च* ग्लानः प्रष्टव्यः-कियता विकृत्यादिना तवार्थः । तेन स्वप्रमाणे प्रोक्ते स वैयावृत्त्यकरो गुरुं वदेत्-इयता विकृत्या-| दिना अर्थों ग्लानस्य, गुरुर्वदेत्-यत्स ग्लानः प्रमाणं वदति तत्प्रमाणतस्तद्विकृत्यादिकं ग्रहीतव्यं त्वया । स चवैयावृत्त्यकरो 'विज्ञपयेत्' याचेत गृहस्थपार्थात् , स च 'विज्ञपयन्' याचमानो लभेत तद्वस्तु, अथ प्रमाणप्राप्ते तद्वस्तुनि “होउ अलाहि"त्ति 'भवत्वलं, अधिकं माऽदाः' इति वक्तव्यं स्यात् गृहस्थं प्रति । अथ गृहस्थो ब्रूते'किमाहुर्भदन्ताः किमर्थं भगवन्तः! अलमिति ब्रुवते?, साधुब्रूते-एतावतैवार्थो ग्लानस्य । 'स्यात्' कदाचित् "ण"ति एनं साधु एवं वदन्तं 'परों' गृही वदेत्-प्रतिगृहाण हे आर्य!, 'पश्चात्' ग्लानभोजनानन्तरं यदधिकं तत्त्वं भोक्ष्यसे पकान्नादिः, पास्यसि वा क्षीरादिः, "पाहिसि"त्ति स्थाने क्वचित् "दाहिसि"त्ति पाठस्तत्र स्वयं भुञ्जीथा अन्येभ्यो वा
For Private And Personal use only