________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
पर्युषणा० कल्पार्थबोधिन्याः व्या०६
सूत्रं १२४ प्रभोश्छद्मकाले चारित्रोत्कृष्टत्वं तपस्सख्या च
॥१०३॥
तस्स णं भगवंतस्स अणुत्तरेणं नाणेणं अणुत्तरेणं दंसणेणं अणुत्तरेणं चरित्तेणं अणुत्तरेणं आलएणं अणुत्तरेणं विहारेणं अणुत्तरेणं वीरिएणं अणुत्तरेणं अजवेणं अणुत्तरेणं महवेणं अणुत्तरेणं लाघवेणं अणुत्तराए खंतीए अणुत्तराए मुत्तीए अणुत्तराए गुत्तीए अणुत्तराए तुट्ठीए, अणुत्तरेणं सञ्च-संजम-तव-सुचरिअसोवचिअ-फलनिवाणमग्गेणं अप्पाणं भावेमाणस्स दुवालस संवच्छराई विश्कताई, तेरस
१२४-तस्य भगवतः 'अनुत्तरेण सर्वोत्कृष्टेन ज्ञानेन-मत्यादिचतुष्टयेन, अनुत्तरेण 'दर्शनेन चक्षुदर्शनादिना सम्यक्त्वेन वा, अनुत्तरेण चारित्रेण यथाख्याताख्येन, अनुत्तरेण 'आलयेन' स्याद्यसंसक्तवसतिसेवनेन, अनुत्तरेण विहारेण, अनुत्तरेण 'वीर्येण विशिष्टोत्साहेन, अनुत्तरेण 'आर्जवेन' मायानिग्रहेण, अनुत्तरेण 'मार्दवेन' माननिग्रहेण, अनुत्तरेण 'लाघवेन' संयमक्रियासु दक्षत्वेन, यद्वा द्रव्यतोऽल्पोपधित्वेन भावतो गौरवत्रयत्यागेन, अनुत्तरया 'क्षान्त्या' क्रोधनिग्रहेण, अनुत्तरया 'मुक्त्या' निर्लोभतया, अनुत्तरया 'गुप्त्या' |मनोगुप्त्यादिकया, अनुत्तरया'तुष्ट्या मनःप्रसत्या, तथा अनुत्तरं यत्सत्यं 'संयमः' अहिंसादिसप्तदशविधः'तपों' बाह्यादिद्वादशविधः, एतेषां यत्सुचरणं' सम्यगासेवन,तेन 'सोपचयं' पुष्टं फलं मोक्षरूपं यस्य, एवंविधन निर्वाण|मार्गेणात्मानं भावयतो द्वादशसंवत्सरा व्यतिक्रान्ताः, एतस्मिंश्छद्मस्थकाले प्रमादोऽन्तमुहूर्त एव । तत्र च
"पुनरियं तपस्सङ्ख्या, ह्येकं पाण्मासिकं प्रभोः। दिनपञ्चकहीनं तु, पाण्मासिकमभिग्रहे ॥१॥" "चतुर्मासक्षपणानि, नव द्वे तु त्रिमासिके । सार्दै द्विमासिके द्वे च, द्विमासिकानि षट् पुनः ॥२॥" "सार्द्धमासिके पुनर्रे, मासिकानि द्विषट् पुनः । जातान्यर्द्धमासिकानि, द्वासप्ततिमितानि तु ॥ ३॥"
॥१०३।।
For Private And Personal Use Only