________________
Shri Mahavir Jain Aradhana Kendra
www.kobasith.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ षष्ठं व्याख्यानम् ।
ततश्चतुर्ज्ञानो भगवान् बन्धुवर्गमापृच्छ्य विहाराय प्रस्थितः, बन्धुवर्गोऽपि दृष्टिविषयं यावत्तत्र स्थित्वा
"त्वया विना वीर ! कथं ब्रजामो?, गृहेऽधुना शून्यवनोपमाने।"
"गोष्ठीसुखं केन सहाचरामो ?, भोक्ष्यामहे ? केन सहाथ बन्धो ! ॥१॥" "सर्वेषु कार्येषु च वीर! वीरे-त्यामन्त्रणादर्शनतस्तवार्य!। प्रेमप्रकर्षादभजाम हर्ष, निराश्रिताश्चाथ कमाश्रयामः?lX
"अतिप्रियं बान्धव ! दर्शनं ते, सुधाञ्जनं भावि ? कदाऽस्मदक्ष्णोः ।" [॥२॥"
"नीरागचित्तोऽपि कदाचिदस्मान् , स्मरिष्यसि ? प्रौढगुणाभिराम ! ॥ ३॥" . इत्यादि वदन् कष्टेन निवृत्य साश्रुनयनः खगेहं जगाम । किश्च प्रभुर्दीक्षामहोत्सवे यद्देवैर्गौशीर्षचन्दनादिभिः कुसुमैश्च पूजितोऽभूत् साधिकमासचतुष्कं यावत्तदवस्थेन तद्गन्धेनाकृष्टा भ्रमरा आगत्य गाढं त्वचं दशन्ति, युवानश्च गन्धपुटी याचन्ते, मौनवति च भगवति रुष्टास्ते दुष्टान उपसर्गान् कुर्वन्ति । स्त्रियोऽपि प्रभुं दिव्य-15 रूपं सुगन्धदेहं च विलोक्य कामपरवशा अनुकूलान् उपसर्गान् कुर्वन्ति, भगवांस्तु मेरुरिव निष्पकम्पः सर्व सहमानो विहरति । तस्मिन्नेव दिने मुहूर्तावशेषे कुमारग्रामं प्राप्तस्तत्र निशि कायोत्सर्गेण स्थितः।
For Private And Personal Use Only