________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobafirth.org
XXXXakakakakakXXOXO
इयपक्कीलिएसु जणवएसु, पुश्वरत्तावरत्तकालसमयंसि, हत्थुत्तराहिं नक्खत्तेणं चंदे णं जोगमुवागए णं, आरुग्गा आरुग्गं दारय पयाया॥१८॥
शास्त्रकारैरिति । पुनर्विशुद्धासु दिग्दाहाद्यभावात् । पुनः 'जयिकेषु' जयकरेषु 'सर्वेषु' काकोलूकदुर्गादिजल्पनXप्रभृतिषु 'शकुनेषु' भाव्यर्थसूचकनिमित्तेषु सत्सु, पुनः 'प्रदक्षिणे' प्रदक्षिणावर्तिनि 'अनुकूले' सुरभिशी-IX
तत्वात्सुखप्रदे तथा मृदुत्वाद्भूमिसर्पिणि, चण्डवातो धुच्चैस्सर्पति, ईदृशे मारुते प्रवातुमारब्धे सति, तथा 'निष्पन्नमेदिनीये' उत्पन्नसर्वशस्या मेदिनी यत्र, एवंविधे काले सति 'प्रमुदितेषु' सुभिक्षादिना हर्षितेषु, अत एव 'प्रक्रीडितेषु' वसन्तोत्सवादिना क्रीडितुमारब्धेषु 'जनपदेषु' देशवासिजनेषु सत्सु, पूर्वरात्रापररात्रकालसमये हस्तोत्तराभिस्समं योगमुपागते चन्द्रे सति 'आरोग्या' व्यावाधारहिता त्रिशला 'आरोग्यं' बाधारहितं 'दारकं पुत्रं 'प्रजाता' सुषुवे इति भावः। ___ इति श्रीपर्युषणाकल्पावचूर्यन्तर्वाच्यादिविविधव्याख्यामुपजीव्य प्रवचनप्रभावकश्रीखरतरगच्छनभोनभोमणि-क्रियोद्धारक-श्रीमन्मोहनमुनीश्वरविनेयविनेयानुयोगाचार्य-श्रीमत्केशरमुनिजीगणिवरसंगृहीतायां कल्पार्थबोधिनीनामपर्युषणाकल्पव्याख्यायां
प्रभोर्जन्मकल्याणकव्यावर्णनबन्धुरं चतुर्थ व्याख्यानम् । अं०१०३-२-३ मूलं, २८४-२-३ वृत्तिः, ४२-२-० टि० नं.१,१०-०-७टि० नं. २, ६-१-३ टि० नं०३, सर्वांप्रेण ४४७-1-0,
चतुर्णामपि व्या० २६६६-०-६ । (एपेव शुदा गणना, स्खलनायुतत्वात्प्राग्वर्तिव्याख्यानत्रयस्य गणनायाः)
XXXOXOXOXOXOXOXXX
For Private And Personal Use Only