________________
Shri Mahavir Jain Aradhana Kendra
www. kobafrth.org
Acharya Shri Kailassagarsuri Gyanmandir
ॐ पञ्चपरमेष्ठिभ्यो नमः
श्रीमन्मोहन-यशःस्मारक-जैनग्रन्थमालायांश्रुतकेवलिश्रीमद्भद्रबाहुस्वामिसङ्कलितं पर्युषणाकल्पनियुक्त्यन्तर्वाच्यादिविविधव्याख्यातः स्वर्गीयानुयोगाचार्यश्रीमत्केशरमुनिगणिवरसङ्गहीतया कल्पार्थबोधिन्यभिधयाऽल्पव्याख्या सहितं
पयुषणाकल्पसूत्रम्।
प्रणम्य श्रीजिनं वक्ष्ये, व्याख्यां कल्पार्थबोधिनीम् । वाचने श्रवणे चाल्पा, खल्पमत्युपकारिणीम् ॥१॥ स्थिता वर्षाचतुर्मास्यां, पर्युषणां हि साधवः। कुर्वन्ति मङ्गलार्थ च, कल्पसूत्रस्य वाचनाम् ॥२॥ कल्पशब्देन साधूना-माचारोऽत्र प्रकथ्यते । दशभेदाश्च कल्पस्य, निर्युक्त्यादिषु ते यथा ॥३॥ आचेलकद्देसिय-सिजायररायपिंडकिइकम्मे । वयजि,पडिकमणे, मासं पज्जोसणांकप्पो ॥१॥ व्याख्या-"आचेलक"त्ति आचेलक्यं-(अचेलकत्वं,) वस्त्ररहितत्वं, तत्र प्रथमान्तिमजिनतीर्थे सर्वेषां साधूनां श्वेतमानोपेतजीर्णप्रायतुच्छ(अल्पमूल्य)वस्त्रधारित्वेनाचेलकत्वं । सत्यपि वस्त्रे कथमचेलकत्वं ? इति चेद्यथा-कृत
पर्यु.क.१
For Private And Personal Use Only