________________
Shri Mahavir Jain Aradhana Kendra
श्रीपर्युषणपर्वकल्प
प्रभायां
॥ १९ ॥
*%
www.kobatirth.org
"अप्रसन्नात्कथं प्राप्यं, फलमेतदसङ्गतम् । चिन्तामण्यादयः किं न, फलन्त्यपि विचेतनाः १ ॥ १ ॥” इति । तथा जनप्रतिमा फलप्रदा सविधिपूजने प्रशस्तसमाधिचित्तोत्पादकत्वादर्हन्निव चिन्तामण्यादिवद्वा जिनप्रतिमार्चनं कर्तव्यं, कर्तुर्मनः प्रसच्या कर्मक्षयोपशमादिफलजनकत्वात्, तप आदिवदिति मन्तव्यम् ।
Acharya Shri Kailassagarsuri Gyanmandir
नन्वेवं तर्हि केषाञ्चिद्भगवत्पूजातोऽप्यहितप्राप्तिरिति कथमिति चेत्, तत्र तत्कृताविधिरेव कारणं न तु भगवान्, तथाहि अग्निमविधिनाऽऽसेवमानस्तत्र हस्तक्षेपेण दग्धो भवेत्तत्र नैवाऽग्नेर्दोषः, वैद्योक्तपथ्यविधिमुत्सृज्याऽविधिनौषधसेवनेनाऽहितं स्यात्तत्र न वैद्यस्य दोषः, किन्तु कुवासनावासितखाशयस्यैव । एवं सकलजगजन्तुजात हितावहस्याऽप्यनन्तगुणनिधेर्भगवतः शास्त्रोक्त विधिमुत्सृज्य निकाचितपापकर्म कलुषितात्मभिरविधिनाऽर्चनेऽहितप्राप्तिस्स्यात्तत्र न भगवतो दोषः, किन्तु स्वीयदुष्टाशय एव कारणम् ।
प्रभुशासने शुभाशुभात्मपरिणाम एवं मुख्यवृत्त्या शुभाशुभकर्मबन्धकारणं, निश्चयनयेन खाशयशुद्धौ गुणावाप्तिस्तदशुद्धौ च दोषावाप्तिरिति हेतोः ।
नन्वस्तु जिनप्रतिमापूजनं सफलं तथापि तत्फलं किमिति चेत्, उच्यते - शास्त्रे प्रोक्तम्"" जिण अणं तिसंझं, कुणमाणो सोहए य सम्मत्तं । तित्थयरनामगुत्तं, पावर सेणियनरिंद व ॥ १ ॥
१ जिनपूजनं त्रिसन्ध्यं कुर्वन् शोधयति च सम्यक्त्वम् । तीर्थकरनामगोत्रं प्राप्नोति श्रेणिकनरेन्द्र इव ॥ १ ॥
For Private and Personal Use Only
जिनप्रतिमापूजाफलाधिकारः। ॥ १९ ॥