________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SANSAR
ESAERSS
रौद्रध्यानपरोऽन्तर्मुहूर्तमायुरनुपाल्य सप्तमनरकपृथिव्यां त्रयस्त्रिंशत्सागरोपमायु रकतयोत्पद्यत इति । उक्तश्च "भोगे अभुजमाणा वि, केइ मोहा पडंति अहरगई” इति । द्वितीयाऽऽश्रवद्वारपरित्यागे
द्वितीया___"खीरं पि व हंसा जे, घुटुंति केवलं समिद्धगुणे । दोसे विवजयंता, ते जाण सुजाणए पुरिसे ॥१॥ 131 जैइ इच्छह गुरुअत्तं, तिहुअणमज्झम्मि अप्पणो नियमा। ता सवपयत्तेणं, परदोस विवजणं कुणह ॥२॥" रूपण तइति पारमर्षोंक्तिमनुस्मरन् सर्वदेव परदोषान्नैव ब्रूयात्, पर्युषणायां तु विशेषतः, अप्रीतिकरं परेषां येन
त्यागोपस्यात् शीघ्र कुप्येदा परस्तन्न वचनं भाषेत, तदुक्तं
देशश्च । "अप्पत्तियं जेण सिया, आसु कुप्पिज वा परो । सबसो न भासेजा, भासं अहियगामिणं ॥१॥” इति ।
वश्लाघायां परनिन्दायां च मूक एव स्यात् सततं सज्जनः, परगुणान्वेषणस्वदोषवीक्षणसजो भूत्वा परगुणपरमाणून पर्वतीकृत्योल्लसेत्, परमाणुरूपानपि खदोषान् दृष्ट्वा स्वात्मानं निन्देत्, चित्तोद्वेगकारिणी निष्ठुरां कर्कशां
१ भोगान् अभुजाना अपि केऽपि मोहात्पतन्ति अधोगतिम् ॥१॥ २क्षीरमिव हंसा ये पिबन्ति केवलं समृद्धगुणान् । दोषान् विवर्जयन्तस्तान जानीहि सुशायकान् पुरुषान् ॥२॥ ३ यदि इच्छत गुरुकत्वं त्रिभुवनमध्ये आत्मनो नियमात् । ततस्सर्वप्रयत्नेन परदोषविवर्जनं कुरुत ॥३॥ ४ अप्रत्ययं येन स्यात् आशु कुप्येद् वा परः । सर्वशो न भाषेत भाषामहितगामिनीं ॥४॥
For Private and Personal Use Only