________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आभासोद्देशः ।
अथेदानीमुक्तप्रमाणस्वरूपादिचतुष्टयाभासमाह ॥ १ ॥
ततः उक्तात् प्रमाणस्वरूप संख्याविषयफलभेदादन्यत् विपरीतं तदाभासमिति ॥ १ ॥ तत्र क्रमप्राप्तं स्वरूपाभासं दर्शयति ॥ २ ॥
82
अस्वसंविदितज्व गृहीतार्थं च दर्शनज्च संशय आदि येषां ते संशयादयश्चेति सर्व्वषां हः । श्रादिशब्देन विपर्य्ययानध्यवसाययोरपि ग्रहणम् । तत्रास्वसंविदितं ज्ञानं ज्ञानान्तरप्रत्यक्षत्वादिति नैयायिकाः । तथाहि ज्ञानं स्वव्यतिरिक्तवेदनवेद्यं वेद्यत्वात् घटवत् इति । तदङ्गतम् । धर्म्मिज्ञानस्य ज्ञानान्तरवेद्यत्वे साध्यान्तः पातित्वेन धर्म्मित्वायोगात् । स्वसंविदितत्वे तेनैव हेतोरनैकान्तात् । महेश्वरज्ञानेन च व्यभिचाराद्दासिज्ञानेनाप्यनेकान्तादर्थप्रतिपत्तायोगाच्च ।
न हि ज्ञापक प्रत्यक्षं ज्ञाप्यं गमयति शब्दलिङ्गादीनामपि तथैव गमकत्वप्रसङ्गात् । अनन्तरभाविज्ञानग्राह्यत्वे तस्याप्यष्टहीतस्य पराज्ञापकत्वात् तदन्तरं कल्पनीयम् । तत्रापि तदन्तरमित्यनवस्था । तस्मान्नायं पक्षः श्रेयान् ।
एतेन कारणज्ञानस्य परोक्षत्वेनास्वसंविदितत्वं ब्रुवन्नपि मीमांसकः प्रत्युक्तः । तस्यापि ततोऽर्थप्रत्यक्षत्वायोगादर्थ कर्म्म त्वेनाप्रतीयमानत्वात् । अप्रत्यक्षं तर्हि फलज्ञानस्या - प्रत्यक्षता तत एव स्यात् ।
अथ फलत्वेन प्रतिभासनानोचेत् करणज्ञानस्यापि करणत्वेनावभासनात् प्रत्यक्षत्वमस्तु । तस्मादर्थप्रतिपत्तान्यथानुपपत्तेः करणज्ञानकल्प नावदर्थप्रत्यक्षत्वान्यथानुपपत्ते ज्ञानस्यापि प्रत्यक्षत्वमस्तु |
अथ करणस्य चतुरादेरप्रत्यक्षत्वेऽपि रूपप्राकटयादाभिचार इति चेन्न । भिन्नकर्त्त - करणस्येव तद्वाभिचारादभिन्नकर्तृके करणे सति कर्त्तृप्रत्यक्षतायां तदभिन्नस्यापि करणस्य कथञ्चित् प्रत्यक्षत्वेनाप्रत्यक्षतैकान्तविरोधात् । प्रकाशात्मनोऽप्रत्यक्षत्वे प्रदीपप्रत्यक्षत्वविरोधवदिति ।
गृहतग्राहिधारावाहिनं गृहीतार्थं दर्शनं सोगताभिमतम् । निर्विकल्पकं तच्च स्वविषयानुपदर्शकत्वात् प्रप्रमाणम् । व्यवसायस्यैव तज्जनितस्य तदुपदर्शकत्वादर्थव्यवसायस्य प्रत्यक्षाकारेणानुरक्तत्वात् । ततः प्रत्यत्तस्यैव प्रामाख्यम् । व्यवसायस्तु गृहीतग्राहित्वात् श्रप्रमाणमिति । तन सुभाषितम् । दर्शनस्याविकल्पकस्यानुपलक्षणात् । तत्सद्भावायोगात् सद्भावे वा नौलादाविव तणक्षयादावपि तदुपदर्शकत्वप्रसङ्गात् । तत्र विपरीतसमारोपानेति चेत् तर्हि सिद्धं नौलादौ समारोपविरोधिग्रहणलक्षणो निश्चय इति । तदात्मकमेव प्रमाणं तदाभासमिति । संशयादयश्व प्रसिद्धा एव । तत्र संशयः उभयकोटिसंस्पर्शो स्याबुवा पुरुषोवेति परामर्शः । विपर्य्ययः पुनरतस्मिंस्तदिति विकल्पः । विशेषानवधारणमनध्यवसायः ॥ २ ॥
For Private and Personal Use Only
कथमेषामस्वसंविदितादीनां तदाभासतेत्यत्राह ॥ ३ ॥
गतार्थमेतत् ॥ ३ ॥
अत्र दृष्टान्तं यथाक्रममाह ॥ 8 ॥
पुरुषान्तरज्च पूर्व्वर्थिश्च गच्छत्तृणस्पर्शश्च स्याणुपुरुषादिश्च तेषां ज्ञानं तदिव तद्दत् ॥ 8 ॥
परज्च सन्निका वादिनं प्रति दृष्टान्तमाह ॥ ५ ॥
7