________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परीक्षोद्देशः।
३६
ननु न गुणकृतमेव प्रामाण्यं किन्तु दोघाभावप्रकारेणापि । म च दोघाश्रय पुरुषाभावेऽपि निश्चीयते न गुणसद्भाव एवेति । तथाचोक्तम् ।
शब्द दोघोद्भवस्तावद् वक्तधीन इति स्थितम् । सदभावः क्वचित्तावद्गुणवहक्तकत्वतः ॥ तद्गुणेरपकृष्टानां शब्द संक्रान्तासम्भवात् ।
यहा वक्तुरभावन न स्युर्दोघा निराश्रयाः॥ इति । तदप्ययुक्तं पराभिप्रायापरिज्ञानात् । नास्माभिर्वक्तुरभावे वेदस्य प्रामाण्याभावः समुद्भाव्यते किन्तु सहाख्यातृणां अतौन्द्रियार्थदर्शनादिगुणाभावे ततो दोघाणामनपोहिसत्वात् न प्रामाण्य निश्चय इति । ततो पौरुषेयत्वेऽपि वेदस्य प्रामाण्यनिश्चयायोगात् नानेन लक्षणस्याव्यापित्वमसम्मवित्वं वा। इत्यलमतिजल्पितेन ॥ ४ ॥
ननु शब्दार्थयोः सम्बन्धाभावादन्यापोहमात्राभिधायित्वादाप्सप्रणीतादपि शब्दात् कथं वस्तुभूतार्थावगम इत्यत्राह ॥ ५॥
सहजा स्वभावभूता योग्यता शब्दार्थयो वाच्यवाचकक्तिस्तस्यां सङ्कतस्तदशात् विस्फुटं शब्दादयः मागुक्ता वस्तुप्रतिपत्तिवेतव इति ॥ ५ ॥
उदाहरणमाह ।। ९६॥
ननु यएव शब्दाः सन्तार्थ दृष्टास्त एवार्थाभावेऽपि दृश्यन्ते तत् कथमर्याभिधायकत्वमिति । तदप्ययुक्तमनर्थ केभ्यः शब्द भ्योऽर्थवतामन्यत्वात् । न चान्यस्य व्यभिचारेऽन्यस्यासी युक्तोऽतिप्रसङ्गात् । अन्यथा गोपालघटिकान्तर्गतस्य धूमस्य पावकस्य व्यभिचारे पर्वतादिधमस्यापि तत्प्रसङ्गात् । यत्नतः परीक्षितं कार्य कारणं नातिवर्तते इत्यन्यत्रापि समानम् । सुपरीतितो हि शब्दोऽयं न व्यभिचरतीति । तथाचान्यापोहस्य शब्दार्थत्वकल्पनं प्रयासमात्रमेव । न चान्यापोहः शब्दार्थों व्यवतिष्ठते प्रतीतिविरोधात् । न हि गवादिशब्दश्रवणादगवादिव्यावृत्तिः प्रतीयते । ततः सानादिमत्पपदार्थ प्रवृत्तिदर्शनादगवादिबुद्धिजनकं तत्र शब्दान्त मृण्यम् ।
अकस्मादेव गोशब्दादयस्थापि सम्भावनानार्थः शब्दान्तरेणेति चेन्नैवमेकस्य परस्परविरुद्धार्थहयप्रतिपादनविरोधात् ।
किच गोशब्दस्यागोव्यावृत्तिविषयले प्रथममगोरिति प्रतीयेत । न चैवमतो नान्यापोहः शब्दार्थः। किज्वापोहाख्यं सामान्यं वाच्यत्वेन प्रतीयमानं पर्युदासरूपं प्रसज्यरूपं वा। प्रथमपक्ष गोखमेव नामान्तरेणोक्तं स्यादभावाभावस्य भावान्तरस्वभावेन व्यवस्थितत्वात् ।
कश्चायमश्वादिनिवृत्तिलक्षणो भावोऽभिधीयते न तावत् म्वलक्षणरुपस्तस्य सकलविकल्प-वाग्गोचतिक्रान्त त्वात् । नापि शावलेयादिव्यक्तिरूपः तस्यासामान्यत्वप्रसङ्गात् । तस्मात् सकलगोव्यक्तिध्वनुवृत्तप्रत्ययजनकं तत्रैव प्रत्येक परिसमामा वर्तमान सामान्यमेव गोशब्दवाच्यम् । तस्यापोह इति नामकरणे नाममा भिद्यत नार्थ इति । अतो नाद्यः पक्षः श्रेयान् । नापि द्वितीयो गोशब्दादेः क्वचिहाधेऽर्थ प्रवृत्त्ययोगात् तुच्छाभावाभ्युपगमे परमतप्रवेशानुघाच्च ।
किन गवादयो ये सामान्यशब्दा ये च शावलेयादयः तेषां भवदभिप्रायेण पर्यायता स्थादर्थभेदाभावाद,तपादपादिशब्दवत्। न खलु तुच्छाभावस्य भेदो युक्तो वस्तुन्यव
For Private and Personal Use Only