________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परोक्षोद्देशः।
प्रत्रवोपपत्तिमाह ॥ ५ ॥
हि शब्दो यमादर्थे । यस्मात्तस्य कारणस्य भावे कार्यस्य भावित्वं तद्भावभावित्वं तच्च सहापाराश्रितम् । तस्मान्न प्रकृतयोः कार्यकारणभाव इत्यर्थः । अयमर्थः । अन्वयातरेकसमधिगम्यो हि सर्वत्र कार्यकारणभावः । तौ च कायं प्रति कारणव्यापारव्यपेक्षावेवोपपद्यते कुलालस्येव कलशं प्रति । न चातिव्यवहितेषु तद्यापाराश्रितत्वमिति ॥ ५ ॥
सहचरस्थायुक्तहेतुष्वन्तर्भावं दर्शयति ॥ ५९॥
हेवन्तरत्वमिति शेषः । अयमभिप्रायः परस्परपरिहारेणोपलम्भात तादात्म्यासम्भवात् स्वभावहेतावनन्तर्भावः। महोत्पादाच न कार्य कारणे वेति । न च समानसमयवत्तिनोः कार्यकारणभावः। सव्यतरगोविघाणवत् कार्यकारणयोः प्रतिनियमाभावप्रसङ्गाच्च । तस्माद्धेवन्तरत्वमेवेति ।। ५९ ॥
इदानों व्याप्यहेतुं क्रमप्राप्तमुदाहरन् उक्तान्वयव्यतिरेकपुरःसरं प्रतिपाद्याशयवशात् प्रतिपादितप्रतिज्ञाद्यवयवपञ्चकं दर्शयति ॥ ६॥
स्त्रोत्पत्तो अपेक्षितपरव्यापारी हि भावः कृतक उच्यते । तच्च कृतकलं न कूटस्थनित्यपक्षे नापि क्षणिकप किन्तु परिणामिले सत्येवेत्यग्रे वक्ष्यते ॥६० ॥
कार्य हेतुमाह ॥ ६१ ॥ कारणहेतुमाह ।। ६२ ॥ अथ पूर्वचरहेतुमाह ॥ ६३ ॥ अथोत्तरचरः ॥ ६४॥ अत्रापि मुहूर्तात प्रागिति सम्बन्धनीयम् । तत एव कृत्तिकोदयादेव इत्यर्थः ॥ ६४॥ सहचरलिङ्गमाह ॥६५॥ विरुद्धोपर्लाब्धमाह ॥ ६६ ॥
प्रतिषेधे साध्ये प्रतिषेयेन विरुद्धानां सम्बन्धिनस्ते व्याप्यादयस्लेषामुपलब्धय इत्यर्थः । तथेति घोठेति भावः ॥६६॥
तत्र साध्यविरुद्धव्याप्योपलब्धिमाह ॥ ६ ॥ शौतस्पर्शप्रतिषेधेन हि विरुद्धोऽग्निस्तद्वाप्यमोपायमिति विरुद्धकार्योपलम्भमाह ॥६॥
अवापि प्रतिषेधस्य माध्यस्य शीतस्य स्पर्शविमद्धोऽग्निस्तस्य कार्य धूम इति विरुद्धकारणोपलब्धिमाह ॥ ६६॥
मुखविरोधि दुःखं तस्य कारणं हृदयशल्यमिति विरुद्ध पूर्वचरमाह ॥ ७० ॥ शकटोदयविसद्धोद्यश्चिादयस्तत्पूर्व चरो रेवत्युदय इति विरुद्धोत्तरलिङ्गमाह ।। ७१ ॥ भरण्युदयविरुद्धो हि पुनर्वसूदयः तदुत्तरचरः पुष्योदय इति विरुद्धसहचरमाह ॥७२|
परभागाभावस्य विरुद्धस्तद्भावस्तत्सहचरोऽर्वाग्भाव इति अविरुद्धानुपलब्धिभेदमाह॥७३॥
स्वभावादिपदानां द्वन्द्वः तेषामनुपलम्म इति पश्चात षष्ठीतत्पुरुषः समासः ॥७३॥ स्वभावानुपलम्भोदाहरणमाह ॥ ७ ॥
अत्र पिशाचपरमारवादिभिर्व्यभिचारपरिहाराय उपलब्धिलक्षणप्राप्तत्वे मतीति विशेषणमुन्नेयम् ॥ ७४॥
व्यापकानुपलश्चिमाह ॥ १५ ॥
For Private and Personal Use Only