________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परापारमाधवः ।
इति वानप्रस्थस्य धनसंयोगोऽस्ति ।
“कौपौनाच्छादनार्थं तु वासोऽपि विभयाद् यतिः।
योगसम्भारभेदांश्च ग्रहीयात् पादुके तथा"-- इति वचनाद्यतेरपि वस्त्रपुस्तकादिकं विद्यतएव । नैष्ठिकस्यापि शरीरयात्रार्थं वस्त्रपरिग्रहोऽस्त्येवेति तद्विभागो घटतएव । दायानर्हानाह मनुः,
"अनंगी लौबपतितौ जात्यन्धबधिरौ तथा।।
उन्मत्तजडम्काश्च ये च केचिनिरिन्द्रियाः' इति । निरिन्द्रियाः व्याधिना विकलेन्द्रियाः। नारदोऽपि,
"पिटविट् पतितः षण्डो यश्च स्यादौपपातिकः ।
औरमा अपि नेतेऽ लभरन् क्षेत्रजाः कुतः" -इति । वशिष्ठोऽपि । “अनंशास्त्वाश्रमान्तरगता:"-दति। याज्ञवल्क्यः,
"कौबोऽथ पतितस्तन्नः पङ्गनमतको जड़ः ।
अन्धोऽचिकित्स्यरोगाद्याः भर्तव्याः स्युनिरंशका:"-इति । तन्नः पतितोत्पन्नः । श्रादिशब्दन मकादयो ग्राह्यन्ते । एते निरंशकाः ऋक्थभाजो न भवन्ति । केवनमानाच्छादनेन भनव्याः पोषणोयाः । प्रभरण तु प्रत्यवायमाह मनुः.----
"सर्वेषामपि तत्र्यायो दातुं शतया मनौषिणः । ग्रामाच्छादनमत्यन्तं पतितो ह्यददद्भवेत्" इति ।
* धन्धोऽचिकित्स्यरोगा”,-इति का । + इत्यमेव पाठः चादर्णपुस्तकेषु, नन्याय्यं, इति तु पाठः समीचीनः
प्रतिभाति ।
For Private And Personal Use Only