________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यवहारकाण्डम् ।
३१३
खार्जितद्रव्यविषयः । क्रमागते तु सर्वेषामपि समांश: स्यात्। पितुरिच्छया विषमविभागस्थायुतत्वात् । नारदोऽपि कालान्तरमाह,
"श्रत ऊर्ध्वं पितुः पुत्रा विभजेयुर्धनं समम् । मानिवृत्ते रजसि प्रत्तासु भगिनीषु च ॥
निवृत्ते वाऽपि रमणे पितर्युपरतस्पहे"-दूति। शङ्खोऽपि । “कामे पितरि अक्थविभागो वृद्धे विपरीते चेतसि दौर्घरोगिणि च" इति। अस्यार्थः । अकामे विभागमनिच्छति पितरि अतिहदे विपरीतेऽप्रकृतिस्थे दीर्घरोगिणि अचिकिल्यरोगग्रस्ते च पुत्राणा मच्छयैव विभागो भवतीत्यर्थः । दीर्घरोगग्रहणमतिकुपितादेपलक्षणम् । अतएव नारदः,
"व्याधितः कुपितश्चैव विषयासक्रमानमः ।
अयथाशास्त्रकारी च न विभागे पिता प्रभुः” इति । पित्रा समविभागकरणे विशेषमाह याज्ञवल्क्यः,
“यदि कुर्यात्समानंशान् पत्न्यः कार्या: समांभिकाः ।
न दत्तं स्त्रीधनं यात्रा भर्ना वा श्वश्रेण वा"-इति । यदि खेच्छया पिता पुत्रान् समभागिनः करोति, तदा अदसस्त्रीधनाः पत्न्योऽपि पुसमांशभाजः कार्याः । दत्ते तु स्त्रीधने, “दत्ते बद्धं प्रकल्पयेत्” इति पुत्रांशादीशभाजो भवन्ति। पितरूधं धर्मविद्यर्थं विभागः कर्त्तव्य इत्याह प्रजापतिः,
"एवं मह वसेयुर्वा पृथवा धर्मकाम्यया । पृथग्विवर्धते धर्मस्तस्माद्धा पृथकिया"-इति । हस्पतिरपि,
For Private And Personal Use Only