________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
व्यवहारकाम् ।
Acharya Shri Kailassagarsuri Gyanmandir
१२९
“भर्चा प्रौतेन यदत्तं स्त्रियै तस्मिन्मृतेऽपि तत् । सा यथाकाममश्रीयाद्यादा स्थावरादृते"-इति प्रीतिदाभवचनमप्यनुपपन्नं स्यात् । यदपि - " मणिमुकाप्रबालानां सर्वस्यैव पिता प्रभुः । स्थावरस्य तु सर्वस्य न पिता न पितामहः ॥ पितृप्रमादात् भुज्यन्ते वस्त्राण्याभरणानि च । स्थावरं तु न भुज्येत प्रसादे सति पेटके " - इति । तत्पितामहोपात्तस्थावर विषयम् (१) । तस्मात्, स्वामिनाशादिभागादा स्वत्वं न जन्मनैव ।
राङ्कान्तस्तु | जन्मनेव स्वत्वं लोके प्रसिद्धम् । विभागशब्दश्च स्वामिकधनविषये लोके प्रसिद्धो नान्यदीयधनविषयो न प्रहौलविषय: (२) । किञ्च " उत्पत्त्यैवार्थं स्वामित्वालभेतेत्याचाय्र्याः” - इति गौतमवचनाज्जन्मनैव स्वत्वमवगम्यते ।
यदुक्तम्, मणिमुक्ताप्रबालानाम्, - इत्यादिवचनं पितामहोपात्तस्थावरविषयमिति । तदयुक्तम् । न पिता न पितामह इति वचनात् पितामहस्य हि स्वार्जितमपि धनं पुत्रपौत्रयोः सतोरदेयमिति च जन्मना स्वत्वङ्गमयतीति ।
यदप्युक्रम् । श्रर्थसाध्येष्वाधानादिषु पितुरनधिकार इति । तदयुक्तम् । वचनादेवाधिकारावगमात् । यदपि चोक्तं, जन्मनेव
For Private And Personal Use Only
(१) जन्मनैव खत्वे स्थावरस्य प्रसाददानस्य प्रसक्तिरेव नास्तीति तन्न प्रतिविध्येत । तस्मादिभागादिना स्वत्वं न जन्मनेति भावः ।
(२) न प्रहोयविषयो न निर्व्विषय इत्यर्थः ।