________________
Shri Mahavir Jain Aradhana Kendra
२४८
www. kobatirth.org
पराशर माधवः ।
*
पौराणां कर्म कुर्युस्ते सन्दिग्धेऽर्थे च निर्णयम् " - इति ।
याज्ञवल्क्योऽपि -
"निजधर्माविरोधेन यस्तु सामयिको भवेत् ।
मोऽपि यत्नेन संरच्यो धर्मेौराजकृतश्च यः” – इति । श्रौतस्मार्त्तधर्मानुपमर्दन गोत्राचारेचण देवग्टहपालनादिरूपोयो धर्मः समयान्निष्पन्नो भवेत्, सोऽपि यत्नेन पालनीयः । तथा, राज्ञा च निजधर्माविरोधेनैव यावत्पथिकभोजनं देयं श्रस्मदरातिमण्डलं तुरङ्गादयो न प्रस्थापनीया इत्येवं रूपः समयनिष्पन्नः, सोऽपि रचणीयः । एवं राजनियुक्तसमुदाय विशेषस्य कर्त्तव्यविशेषोऽभिहितः । ग्रामादिसर्वसमुदायानां तु साधारणकार्य्यमाह बृहस्पतिः,—
Acharya Shri Kailassagarsuri Gyanmandir
" ग्रामश्रेणीगणानाञ्च सङ्केतः समयक्रिया |
बाधाकाले तु सा कार्य्या धर्मकार्य्ये तथैवच ॥ वाटचोरभये बाधा सर्वसाधारण स्मृता ।
तत्रोपशमनं कार्यं सर्वणैकेन केनचित् " - इति । चकारेण पाषण्डनैगमदीनां चोपसंग्रहः । ततश्च ग्रामश्रेणौगणपाषण्डनैगमादीनामुपद्रवकाले धर्मकार्ये च यां पारिभाषिकौं समयक्रियां विना उपद्रवो दुःपरिहरः धर्मकार्य्यच्च दुःसाध्यं, मा पारिभाषिकौ समक्रिया सर्वैर्मिलितैः कार्य्या | वाटचौरेभ्यो भये प्राप्ते तदा चोरोपशमनं सर्वैः सम्भूय कर्त्तव्यमित्यर्थः । धर्मका तु विशेषस्तेनैवोक्क्रः
गोप्रचारक्षम, इति का० ।
For Private And Personal Use Only