SearchBrowseAboutContactDonate
Page Preview
Page 802
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४६ परापारमाधवः। "यशेषां स्वामिनं कश्चिन्मोचयेत्प्राणसंशयात् । दासत्वात्म विमुच्येत पुत्त्रभागं लभेत च”-इति । दामाभासानां मोचनमाह याज्ञवल्क्यः, “बलाद्दामौकृतश्चौरैविक्रीतश्वापि मुच्यते"-दति । चकारादाहितो दत्तश्व ग्टह्यत । नारदोऽपि, "चोरापहतविक्रीता ये च दासोक्ताबलात् । राज्ञा मोचयितव्यास्ते दासत्वं तेषु नेक्ष्यते” इति । यस्वे कस्य पूर्वं दास्यमङ्गीकृत्य परस्यापि दासत्वमङ्गोकरोति, असावपरेण विसर्जनौय इत्याह सएव,--- “तवाहमिति वाऽऽत्मानं योऽखतन्त्रः प्रयच्छति । न म तम्प्राप्नुयात्कामं पूर्वस्वामौ लभेत तम्" इति । दामविमोक्षणेतिकर्त्तव्यतामाह मएव, "खदाममिच्छेद्यः कर्तुमदासम्प्रीतमानसः । स्कन्धादादाय तस्यामौ भिन्द्यात्कुम्भं सहाम्भमा ॥ माक्षताभिः पुष्पाभिर्मूद्धन्यद्भिरवाकिरेत् । अदास इति चोक्का त्रिः प्रामुखस्तु तथोत्सृजेत् ॥ ततः प्रभृति वनव्यः खाम्यनुग्रहपालितः । भोज्यानोऽथ प्रतिग्राह्यो भवत्यभिमतः सताम्" इति । इत्यभ्युपेत्याशुश्रूषाख्यं विवादपदं समाप्तम् । • प्रामुखं तमथोत्सृजेत्, इति ग्रन्थान्तरधतः पाठः । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy