________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६४
परापूरमाधवः।
[१२ १०।
अन्यानि वा पवित्राणि सामान्याहुर्मनीषिणः” इति । अथ रेतःस्खलने प्रायश्चित्तमाह,गृहस्थः कम तः कुर्याद्रेतसः स्खलनं भुवि ॥६॥ सहस्रन्त जपेद्देव्याः प्राणायामैः विभिः सह । इति। अकामते याज्ञवल्क्य आह,
“यन्मेऽद्य रेत इत्याभ्यां स्कनं रेतोऽभिमन्त्रयेत् ।
स्तनान्तरं भुवोर्मध्यं तेनानामिकया स्पगेत्” इति ॥ यन्मेऽद्य रेत इत्येकस्या ऋचः प्रतीकमिदम्। पुनामैत्विन्द्रियमित्युपरितनो मन्त्रः । तेनाभ्यां मन्त्राभ्यामनामिकया रेत श्रादाय स्तनयोः ध्रुवोर्मध्यमुपस्पृशेत् । यतीनां वनवासिनां च प्रयत्नोत्मर्ग कखोतं द्रष्टव्यम्,
“यत्नोत्सर्ग ग्टही कृत्वा वारुणणेभिरुपस्पृशेत् ।
वानप्रस्थो यतिश्चैव चरेच्चान्द्रायणत्रयम् *" इति ॥ खने तु काश्यप ाह,
"सूर्य्यस्य त्रिनमस्कारं स्वप्ने सिक्का ग्टही चरेत् ।
वानप्रस्थो यतिश्चैव त्रिः कुर्य्यादधमर्षणम्" इति ॥ ब्रह्मचारिणं प्रति मनुराह,
"स्वप्ने मिक्वा ब्रह्मचारी विजः शुक्रमकामतः ।
स्नात्वाऽर्कमर्चयित्वा तु पुनर्मामित्यूचं जपेत्”-इति ॥ भयादौ प्रजापतिराह,
* चरेश्चान्द्रायणव्रतम्, इति मु.।
For Private And Personal Use Only