________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३१०,या का० ।
पराशरमाधवः।
७.
७
कोद्रवाः कोरदूषकाः। पुलकाः पुलाकाः छान्दमोऽत्र इखः । संस्कारकद्रव्येषु हिङ्गद्रव्यमश्राद्धेयम् । कालः कृष्णर्जुकः। अनलचित्रकः । शुभा शुभाख्यः शाकविशेषः। एतानि शाकान्यश्राद्धथानि । ननु,
_ "मधूदं रामठञ्चैव कर्पूरं मरिचं गुड़म्" इति
श्रादिपुराणे हिङ्गुद्रव्यस्य श्राद्धेयत्वमुक्त, तत्कथं तस्याश्राद्धेयत्वमुच्यते, इति। सत्यं, "अतिरात्रे षोडशिनं ग्रहाति नातिराचे घोडशिनं ग्टहाति" इति वस्त्रापि विधिप्रतिषेधदर्शनादिकल्पोऽस्तु । एवमेवान्यत्रापि। भारदाजोऽपि । “मुगाढकीमाषवर्ज विदलानि दद्यात्"-दति । मुगः कृष्णेतरः, आढकी तुवरी, माषो राजमाष:, एतैर्चिना विदलानि दद्यादित्यर्थः। माषग्रहणं कुलत्यादीनामुपलक्षणार्थम् । अतएव चतुर्विंशतिमतम्,
"कोद्रवानाजमाणंश्च कुलत्थान्वरकांस्तथा । निष्पास्तु विशेषेण पञ्चैतांस्तु विर्जयेत् ॥
यावसालानपि तथा वर्जयन्ति विपश्चित:"-इति । वरका: वनमुगाः । अन्यत्प्रसिद्धम् । अत्र निष्यावनिषेधः कृष्ण . निष्यावविषयः,
"कृष्णधान्यानि सर्वाणि वर्जयेत् श्राद्धकर्मणि"-दति स्मरणात् । “निष्यावाश्चात्र शोभनाः" इति मार्कण्डेयपुगणं कृष्णोतरनिष्पावविषयाया व्यवस्थापितं भवति ! मरीचिरणि,
"कुलत्थाचणका: श्राद्धे न देयाश्चैव कोद्रवाः । कटुकानि न साणि विरसानि तथैवच" इति
For Private And Personal