________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः ।
[३१०,बा०का ।
विधानात् । "प्रथाशौचापगमे"-इति माधारणेनोपकम्यैको दिष्टस्य विष्णुना विहितत्वाच ।
"श्राद्यश्राद्धमशद्धोऽपि कुर्यादेकादशेऽहनि ।
कर्तुम्तात्कालिकी वद्धिरशुद्धः पुनरेव म:"-दति प्रवचनेनाशौचमध्ये एकादशेऽहि एकोद्दिष्टविधानान्मेवमिति चेत् । न । मातर्यग्रे प्रमीतायं तदाशौचमध्ये यदि पिता म्रियेत, ततो मातुरेकोद्दिष्टश्राद्धमेकादशेऽहि प्रशद्धोऽपि कुर्यादिति विषयान्तरसम्भवात् । यत्तु,
"एकादशेऽहि यच्छ्राद्धं तत्मामान्यमुदाहृतम् ।
चतुर्णामपि वर्णनां मृतकन्तु पृथक् पृथक्" इति पैठीनसिवचनं, नयायमर्थः । श्राशौचानन्तरदिने यच्छ्राद्धं विहितं, तचतुर्णमपि वर्णनां माधारणं न ब्राह्मणस्यैवेति। कथं तयकादशाहशब्दम्योपपत्तिरिति चेत् । न । खक्षणया तम्याशौचानन्तरदिनपरत्वेनोपपत्तेः।
अत्रोचते । एकादशाहकालविशिष्टमेकोद्दिष्टश्राद्धं चतुर्ण वर्षानां विधीयते । “न विधौ परः शब्दार्थ." इति न्यायेनैकादशाहशब्दस्य लक्षणयाऽऽशौचानन्तरदिनपरत्वानुपपत्तेः । मति मुख्य वृत्त्यन्तरकल्पनाया अन्याय्य त्वाञ्च, एकादशाइएव क्षत्रियादिभिरप्येको द्दिष्टश्राद्धं कर्त्तव्यम् । नन्वेकादशेऽहि क्षत्रियादीनां शुद्ध्यभावाच्छ्राद्धेऽधिकारो नास्ति इत्युक्रमिति चेत् । न । कर्तुतात्कालिकी द्धिरिति वचनात्तात्कालिक्या: शुद्धेः सत्त्वात् । यत्त शङ्खवचनस्याशौचमध्ये प्राशीचन्तरप्राप्तावेकोदिष्टमेकादशेऽहि प्रशद्धोऽपि कुर्यादिति विषय
For Private And Personal