________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३०, चा०का० ।]
यस्तु सपिण्डएव प्रेतं निर्हरति न तस्याशौचाधिकां, प्रेतनिर्हर
स्य विहितत्वात् । तदाह देवता, -
पराशर माधवः ।
Acharya Shri Kailashsagarsuri Gyanmandir
"विहितं तु सपिण्डानां प्रेतनिर्हरणादिकम् ।
तेषां करोति यः कश्चित् तस्याधिक्यं न विद्यते " - इति ॥ श्राधिकयमाशौचाधिक्यमित्यर्थः । समानोदकप्रेतनिर्हरणे दशाहम् ।
तदाह मएव, -
"यः समानोदकं प्रेतं वदेदाऽथ दहेत वा । तस्याशौचं दशाहं तु धर्म्मज्ञामुनयो विदुः " - इति ॥ ब्रह्मचारिणः प्रेतवहन करणे व्रतलोपः । तदाह देवलः -
"ब्रह्मचारी न कुर्वीत शवदाहादिकाः क्रियाः । यदि कुर्याचरेत्कृच्छ्रं पुनः संस्कारमेव च " - इति ॥ पिचादिश्ववहने तु न दोषः । तथाच मनुदेवलौ, -
" श्राचार्यं स्वमुपाध्यायं पितरं मातरं गुरुम् । निर्हृत्य तु व्रती प्रेतान् न व्रतेन वियुज्यते " - इति ॥ वसिष्ठोऽपि । “ब्रह्मचारिणः शवकर्माणा व्रतनिवृत्तिरन्यत्र माता
पित्रोर्गुरोर्वी" - इति । याज्ञवलक्योऽपि -
“श्राचार्यपिचुपाध्यायं नित्याऽपि व्रती व्रती ।
स तदन्नञ्च नाश्रीयान्न च तैः सह संवसेत्” इति ॥
* प्रेतवाहादिकाः, इति मु० ।
+ शकटान्नच्च - इति सो० बि० ।
80
६३३
For Private And Personal