________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
५४०
पराशरमाधवः
दण्डादीनां मन्त्रानाह वौधःयतः, -
“सखा मेत्यादिना दण्ड गृहीयाद गुरुणाऽपितम् । येन देवाः पवित्रणेत्युक्त्वा जलपवित्रकम् ।। यदस्य पारे रजसः शुक्रमित्यपि शिक्यकम् । व्याहृतीभिस्तथा पात्रमथ कौपीनमित्यचा। युवा सुवासा इत्येवं तच्छंयोरुपवीतकम्। एतद् गृहीत्वा निष्कम्य स्वग्रामं वान्धवांस्त्यजेत् ॥
निःस्पृहोऽन्यत्र गत्वैव ब्रतैः स्वैवर्तयेत् सदा" - इति । एतच्च जलपवित्रादिकं चतुर्विधेषु भिक्षुष प्रथम-द्वितीय-विषयम् । चातुविध्यन्तु भिक्ष णां हारीत आह, -
"चतुर्विधा भिक्षवस्तु प्रोक्ताः सामान्यलिमिनः ॥ तेषां पृथक् पृथक् ज्ञानं वृत्तिभेदात् कृतं च तत् । कूटीचरो* वहूदको हंसश्चैव तृतीयकः ॥
चतुर्थः परमोहंसो यो यः पश्चात् स उत्तमः"। - इति । पितामहो पि, -
"चतुविधा भिक्षवस्तु प्ररव्याता ब्रह्मणो मुखात् । कूटोचरो बहूदको हंसश्चैव तृतीयकः ।
चतुर्थः परहंसश्च संज्ञाभेदैः प्रकीर्तिताः” -इति । तत्राधिकार विशेषः पुराणे दर्शितः, -
"विरक्तिदिविधा प्रोक्ता तीव्रा तीब्रतरेति च । सत्यामेव तु तोब्रायां न्यसेद् योगी कूठिचरः। शक्तो वहुदके तीव्रतरायां हंस-संज्ञिते॥ मुमुक्ष : परमे हंसे साक्षाद्विज्ञान-साधने" - इति ।
* कुटीचक, - इति मु० पुस्तके पाठः। एवं परत्र सर्वत्र
For Private And Personal