________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
(प.बाका.
पराशरमाधवः।
तथैवैकस्य पापस्य निवृत्ती बहवः स्मृताः । प्रतभेदा विकल्प्यन्तां श्रद्धाजायन्तु ते वृथा (१) । ननु क पञ्चगव्यादिः कुत्र वा मरणान्तिकम् ! । तयोः सम-विकल्पत्वं वदतस्तेऽति साहसम् ! (२) । क्व विश्वजित् क्वाग्रिहोत्रं खर्ग साधयतोस्तयो:विकल्पं वदतस्ते वा कुतानवाति माहसम् (२) । कम्माधिक्यात् फलाधिक्यमिाते न्याय समाश्रयात् । माइसं परिहर्त्तव्यमित्येतदुभयो: समम्(४) ।
व्रतभेदा विकल्पन्तां श्रद्धातः सन्तु ते तथा,--इति मो० स० पुस्तकयाः पाठः ।
इत्यादिना छान्दोप्यादौ विहिता । इयमेव शाण्डिल्य विद्येत्याख्यायते । दहरोपास्तिस्तु -"अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म"-इत्यादिना छान्दोग्यएवाभिहिता दहरविद्या चाख्यायते।
यादिशब्दात् वैश्वानरविद्यादयः ।। (१) तथा च गोबधादौ पराशरोक्तं प्राजापत्यादिकं स्मृत्यन्तरोक्तं प्राय
श्चित्तान्तरश्च इयमपि मुख्यमेव इत्यनयोर्विकल्परवेत्ययं खसिद्धान्तनिष्कर्षः। पूर्वपक्षी प्रवते नन्विति । अयमर्थः । क्वचिदेकेन मुनिना पञ्चगव्यादि __ लघुप्रायश्चित्तमुक्त, तत्रैव पापे अपरेण मुनिना प्राणान्तिकमुक्तं ।
तदनयोर्मुसलतुप्रायश्चित्तयाः समविकल्पत्वमसम्भवदुक्तिकमितिभावः । (३) सिद्धान्तीसमाधत्ते क्वविश्वजिदिति । तथाच विश्वजिदग्रिहोत्रयोरपि
लघगुरुकमणोः खर्गसाधकयोर्विकल्पो न स्यात् । स च त्वयापीष्यते
इति भावः । (8) पूर्वपक्षा विश्वजिदादौ विकल्पमुपपादयितुमाह कम्माधिक्यादिति ।
अयमभिसन्धिः । लघुगुरुप्रयत्नसाध्यानां विकल्पस्थले गुरूपायस्यानन
For Private And Personal