________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
॥१८५॥
RAACHARCOST
संदिग्धे' इति, तथेहापि आस्तिक्यलिङ्गनिश्चिते सम्यग्दृष्टित्वे क संदेहावकाशः, यदि चैवमप्यसौ स्यात् , तदा न्यायस्याप्रामा-IPाबद्धति ण्यमेव स्यात् साध्यानिश्चायकत्वात् , नहि संशयविपय्येयानास्कन्दितसाध्यज्ञानजनकत्वाद् अन्यदस्य प्रामाण्यं नाम, निर्णायकस्यापि संशयकले संशयानुच्छेदश्चापद्येत, न च लिङ्गान्तरादपि साध्यनिश्चयस्तस्यापि लिङ्गखाविशेषेण प्राक्तनस्येव संदेहापादकखात् , प्रवृत्तावर्थप्राप्त्या निश्चय इतिचेत् तर्हि किमनुमानेन यत्र यत्र संदेहस्तत्र तत्र प्रवृत्त्यादेरेव साध्यनिश्चयसिद्धेः, एवमस्तु इतिचेन्न, विप्रकर्षादिना प्रवृत्त्यगोचरेऽपि अर्थेऽनुमानात् तनिश्चयदर्शनात् , अन्यथा कृतिकोदयदर्शनाद् रोहिण्यासत्यनुमानं न स्यात, तस्मादिहास्तिक्यात् सम्यग्दर्शनानुमितिसिद्धेर्युक्तमुक्तं नात्र संदेह इति, अत एवाह-'एत्तोचियत्ति' यत एव आस्तिक्यरूपभावनावत्तया सम्यग्दृष्टिखनिश्चयोऽत एव, लिङ्गं साधनधर्मरूपमास्तिक्यलक्षणम् 'इदमेतत् सम्यक्खानुमापकतयोपन्यस्यमानमव्यभिचारि' अविनाभावि, दीर्घत्वं प्राकृतवात् , खसाध्येन निजानुमेयेन सम्यक्खलक्षणेन केकायितमिव पर्वतनिकुञ्जविशेषवर्तिना मयूरेण, अयमभिसन्धिः, साध्यनान्तरीयकादेव हि हेतोरनौपाधिकसम्बन्धशालितया साध्यसिद्धिः, इत| रथा विपक्षगामितया व्यभिचारिणोऽपि औपाधिकसम्बन्धवत्वेनाऽअयोजकादपि च तत्सिद्धिप्रसङ्गात् , तथा चानित्यवादि| सिद्धौ प्रमेयखादिकमपि, श्यामलादिसिद्धौ च मैत्रतनयखादिकमपि सद्धेतुः प्रसज्येत, तसात्साध्याविनाभावी एव हेतुस्तसिद्धरणं, तादृशं चेदं विवक्षितं लिङ्ग तसादुपपन्नम् , इतः सम्यग्दर्शनानुमानमिति तथाच-प्रयोगः विवादाध्यासितः पुरुषः ।
॥१८५॥ सम्यग्दर्शनवान् आस्तिक्यवत्वात् अभयकुमारवत् , ननु "तत्तत्थसदहाणं सम्मत्तं मन्नइ तमेव सच्चं । नीसंकं जं जिणेहिं पन्नत्तं" इत्यादिलक्षणाभ्यां सम्यक्सास्तिक्ययोस्तत्त्वार्थरुचिरूपलेनाविशेषात् साध्याविशिष्टोऽयं हेतुरिति चेन्न, शुभात्मपरिणाम |
For Private and Personal Use Only