________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
न्यायसूत्रौ ।
२८२
काय तानुपदिशति । सङ्कल्पः समीचीनत्वेन भावनं तद्विषयोलतारूपादयः दोषस्य र. ग.देर्निमित्तं सुन्दरीयमिति जानन् रज्यति शत्रुरयमिति हेष्टि ते रूपादयो हेयत्वेन भावनीयाः प्रयमं ततः शरीरात्मविवेकः ॥२॥
ननु सौन्दर्य्यादिकं पश्यतो रागादिर्ब्रह्मणेोऽपि दुष्परिहरः तदुक्तं चञ्चलं हि ननः कृष्णप्रमाथि बलवद्ढढमित्यतो रागादिनिवृत्त्युपायं दर्शयिष्यन्नाह | अवयविनि तरुण्यादिशरीरे अभिमानः सपरिष्कारबुद्धिस्तन्निमित्त ं रागादिनिमित्तं तथा च सा बुद्धिर्हेया अतएव भाष्यादौ परिष्कारबुद्धिरनुरञ्जनसंज्ञा सा हेया दोषदर्शनमशुभसंज्ञा सा भावनीयेति अनुरञ्जनसंज्ञाय यथा खेलत्खञ्जननयना परिणतबिम्बाधरा पृथुश्रोणी । कमलमुकुलस्तनीयं पूर्णेन्दुमुखी सुखाय मे भवितेति शुभसंज्ञा यथा चर्मनिर्मितपात्रीयं मांसास्टक् पयपूरिता अस्यां रज्यति यो मूढः पिशाचः कस्ततोऽधिकः । स्वशरीरादौ श्रभ्यशुभसं जैव भावनीया एवं कोपनीयेऽपि शुभसंज्ञा । कां द्वेष्ट्यमौ दुराचार द्रष्टादिषु यथेष्टतः कण्ठपीठं कुठारे छित्वास्य स्यां सुखी कदा | अशुभसंज्ञा तु मांसाthreat देशः किं मेऽपराध्यति एतस्मादपरः कर्त्ता कर्त्तनीयः कथं मयेति ॥ ७० ॥ समाप्त तत्त्वज्ञानोत्पत्तिप्रकरणम् ॥ ३ ॥
ः।
अथ प्रसङ्गावयवप्रकरणं वस्तुतस्तु शरीरं धर्मद्वयस्य सम्बन्वेऽपि एकं ध्येयमपरं हेयमिति नियुक्तिकम् अतोऽवयवी नास्ति किन्तु परमा- इति तत्त्वं तदेव तन्मुमुच् भिभवनीयं परमाणुपुल इत्यष्यापाततः परमाणोरप्यये निराकरिष्यमाणत्वादिति सौगतशङ्कामपाकर्त्तृमयमारम्भः यद्यपि द्वितीयाध्याये व्यवस्थापित एवावयत्री तथापि स्वयुक्तिदार्थेन सौत्रान्तिकस्य वैभाषिकस्य चात्र प्रत्यवस्थानमिति तत्र संशयप्रदर्शनाय सूत्रम् | संशय इत्यस्य व्यवयविनीत्यादिः अवयविन: प्रत्यच्तसिद्धत्वात् तदवलापो दुःशक्य इत्यत उक्त विद्येति प्रमाश्रमभेदेन ज्ञान विध्यात् ज्ञानत्वलचणसाधारणधमदर्शनात् ज्ञाने प्रामाण्य संशयादवयविनि संशय इत्यर्थः : ॥ ४ ॥
समाधत्त े । तत्त्रावयविनि न संशयः पूर्व हेतुप्रसिद्धत्वात् द्वितीयाव्यायोक्त क्तिभिरवयविन: प्रकर्षेण सिद्धत्वात् ॥ ५ ॥
For Private And Personal