________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
५ अध्याये १ आह्निकम् ।
१८३
सति कार्यान्यत्वे अनुपलब्धि कारणोपपत्तेः मयस्त्र स्याहेतुत्वं शब्दस्वाभिव्यये यत्र प्रयत्नानन्तरमभिव्यक्तिस्तत्रानुपलब्धिः कारणं व्यवधानमुपपद्यते । व्यवधानापोहाश्च प्रयत्नानन्तरभाविनोऽर्थस्योपलब्धिलचणाभिव्यक्तिर्भवतीति नतु शब्दस्यानुपलब्धि कारणं किञ्चिदुपपद्यते, यस्य प्रयत्नानन्तरमपोहाच्छब्दस्योपलब्धिलचणाभिव्यक्तिर्भवतीति तस्मादुत्पद्यते शब्दो नाभिव्यज्यत इति है तो वेदनेकान्तिकत्वमुपपाद्यते अनैकान्तिकत्वादसाधकः स्यात् इति, यदि चानैकान्तिकत्वादसाधकम् ॥
प्रतिषेधेऽपि समानो दोषः ॥ ३८ ॥
प्रतिषेधोऽप्यनेकान्तिकः किञ्चित् प्रतिषेधति किञ्चिन्नेति अनेकान्तिकत्वादसाधक इति, अथ वा शब्दस्यानित्यत्वपचे प्रयत्नानन्तरमुत्पादनाभिव्यक्तिरिति विशेषहेत्वभावः, नित्यत्वपचेऽपि प्रयत्नानन्तरमभिव्यक्तित्यादइति विशेषहेत्वभावः सोऽयमुभयपक्षसमो विशेष हेत्वभावइत्यमप्यनैकान्तिकमिति ॥
T
सर्वत्रैवम् ॥ ४० ॥
सर्वेषु साधनप्रभृतिषु प्रतिषेधहेतुषु यत्न विशेषो दृश्यते तत्त्रोभयोः पक्षयोः समः प्रसज्यत इति ॥
प्रतिषेधविप्रतिषेधे प्रतिषेधदोषवद्देोषः ॥ ४१ ॥
योऽयं प्रतिषेधेऽपि समानो दोषोऽनैकान्तिकत्वमापाद्यते खोऽयं प्रतिषेधस्य प्रतिषेधेऽपि समान:, तवानित्यः शब्दः प्रयत्नानन्तरीयकत्वादिति साधनवादिनः स्थापना प्रथमः पचः, प्रयत्नकार्य्यानेकत्वात् कासम इति दूषणवादिनः प्रतिषेधहेतुना द्वितीयः पचः, स च प्रतिषेध इत्युच्यते तस्मिन् प्रतिषेधविप्रतिषेधेऽपि समानो देषोऽनेकान्तिकत्वम् चतुर्थः पच्चः ॥
For Private And Personal