________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निशीथस्त्रे
छाया--द्विविधं रजोहरण, औणिकं च तथेतरत् ।
उत्सर्गे प्रथमं प्राचं, अपवादे च अन्यत् ॥ अवचूरिः-'दुविहं' इत्यादि। रजोहरणं द्विविधम्-और्णिकं तथा इतरत्-तद्भिन्नं च । तत्रोत्सर्गमार्गे भौणिक ग्रहीतव्यम् । अपवादे-ऊर्णामयस्याऽलाभे तु-अन्यत् भाषिकादिकमपि रजोहरणं ग्रहीतव्यम् । रजोहरणं पञ्चविधं भवति–जाजमिकं १, भाङ्गिकं २, शाणकं ३, पोतकं ४, तिरीटपरकम् ५ । तत्र जाङ्गमिकं-जङ्गमप्राणिकेशविनिर्मितं, यथा भौणिकम् मौष्ट्रिकमित्यादि १ । भाङ्गिक 'पाट' इति लोकप्रसिद्धं यस्य तन्तुभिः कोत्थलकं निर्मीयते तन्निमितम् २ । शाणकं शणसूत्रनिर्मितम् ३ । पोतकम्-पोतो वस्त्रं, तन्निर्मितं कार्याससूत्रनिर्मितमित्यर्थः ४, तिरीटपट्टकम्-तिरीट इति वृक्षविशेषः, तस्य त्वचाविनिर्मिततन्तुसम्पादितम् ५ । पुनरपि रजोहरणं त्रिविधम्-औत्सर्गिकम् १, आपवादिकम् २, तदुभयात्मकम् ३ । तत्र औत्सर्गिकं सर्वात्मना और्णिकम् , आपवादिकम्-भाङ्गिकादिकं चतुर्भेदकम् । तदुभयात्मकम्--ऊर्णादिमिश्रितम् । एषां मध्यात्पूर्वपूर्वाभावे परात्परं रजोहरणं ग्राह्यम् । प्रतिमाधारी श्रावकस्तु निषधा--रजोहरणोपरिवेष्टनको वस्त्रविशेषः, तद्रहितदण्डिकायुक्त रजोहरणं धारयति । साधुसाध्वीनां तु निषद्यारहितदण्डिकायुक्तं रजोहरणं कथमपि न कल्पते इति ।
. तत्र--रजोहरणप्रमाणमाह-रजोहरणफलिकाया हस्तिनः पदन्यासस्य यावत् प्रमाणं भवेत् तावत्प्रमाणकं रजोहरणं कर्त्तव्यम् । दण्डिकाप्रमाणमाह--गमनसमये सुखपूर्वकं यया प्रमार्जयितुं शक्यते तादृशप्रमाणा लम्बायमाना रजोहरणदण्डिका ग्राह्या । लघुदण्डिकया सम्यक् प्रमार्जनं न संभवति अत एव रजोहरणे लघुदण्डिका न धार्या । तथा--रजोहरणं परित्यज्य युगकाष्ठप्रमाणभूमितो दूरं न गन्तव्यम् । अप्रमार्जितभूमौ गमने चासमाधिस्थानदोषो भवतीति दशाश्रुतस्कन्धे भगवता प्रतिपादितमिति ॥ सू० १॥
सूत्रम्-जे भिक्खू दारुदंडयं पायपुंछणं गेण्हइ गेण्हतं वा साइज्जइ २ छाया-यो भिक्षुर्दारुदण्डकं पादप्रोञ्छनं गृहाति गृहन्तं वा स्वदते ॥ सू० २॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः 'दारुदंडयं पायपुंछणं' दारुदण्डकं पादप्रोञ्छनम् निषद्यापरिवेष्टनरहितदारुदण्डयुक्तं रजोहरणम् 'गेण्हइ' स्वयं गृहाति 'गेहंतं वा साइज्जई' गृह्णन्तं वा स्वदते, गृह्णाति ग्राहयति गृह्णन्तं वा अनुमोदते स प्रायश्चित्तभाग्भवतीति ॥ सू० २ ॥
सूत्रम्--जे भिक्खू दारुदंडयं पायपुंछणं धरेइ धरतं वा साइज्जइ ।३।
For Private and Personal Use Only