SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चर्णिभाष्यावरिः उ०१ सू०६० पूर्तिकर्मभाष्यम्-उद्देशसमाप्तिश्च १ चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'पूइकम्मं मुंबई' पूतिकर्म भुङ्क्ते, तत्र-विवर्ण विनष्टं कुथितमन्नजातं पूतिकं कथ्यते, स्वसमये पुनर्विशुद्धमप्याहारादिकमाघाकर्मिकादिकणमात्रेण मिश्रितं तत्पूतिकमिति कथ्यते, एतादृशमाहारं भुङ्क्ते 'भुंजतं वा साइज्जई' भुञ्जन्तं पूतिकाद्याहारस्योपभोगं कुर्वन्तं स्वदतेऽनुमोदते । 'तं सेवमाणे आवज्जई' तत्-हस्तकर्माद्यारभ्य पूतिकर्भान्तमविधिमार्ग सेवमान आपद्यते-प्राप्नोति 'मासियं परिहारद्वाणं अणुग्याइयं' मासिकं परिहारस्थानमनुद्घातिकम् । अनुद्घातिकं मासिकं प्रायश्चित्तं भवतीति सर्वत्र विज्ञेयम् ॥ सू० ६०॥ हस्तकर्मादारभ्य पूतिकर्मान्ताऽविधिमार्गस्य परिसेवनं कुर्वतः श्रमणादेः प्रायश्चित्तम् , तत्र किमिदं पूतिकर्म ? कतिविधं च ? तत्राह भाष्यकारः—'पूइकम्म' इत्यादि । भाष्यम्-पूइकम्मं दुहा वुत्तं, दव्वे भावे य धीमया । दव्वे सुन्दरदिर्सेतो, भावे सुहुमं च बायरं ॥ छाया-पूतिकर्म द्विधा प्रोक्तं द्रव्ये भावे च धीमता । द्रव्ये सुन्दरदृष्टान्तो भावे सूक्ष्मं च बादरम् ॥ अवचूरिः-तत्र-'पूति' इति कुथितमिति कथ्यते, कर्म-इत्याधाकर्मिकमिति । तच्चाऽऽधाकर्मिक-साध्वर्थ षट्कायोपमर्दनपूर्वकं निर्मितमाहारादिकम् । आधाकर्मिकस्य निषिद्धत्वात् यद्यपि शुद्ध आहारः तत्राऽऽधाकर्मादिदोषयुक्ताहारस्य सिक्यमपि-कणमपि यदि मिलति तदाऽसौ पूतिकर्माहार इत्युच्यते, तदाहारकरणे प्रायश्चित्तम् । तद् द्विप्रकारकं भवति, तदेव दर्शयति भाष्यकार:-'पूइकम्म' इयादिना । विदितशास्त्रहृदयैः पूर्वाचार्यैः पूतिकर्म द्विधा-द्विप्रकारकं कथितम् , तद्यथा-द्रव्ये भावे च, तत्र द्रव्ये सुन्दरदृष्टान्तो निदर्शनम् । तथाहि अस्ति कश्चिद्गाथापतिः, तेन गृहकार्यकरणाय सुन्दरो नामकः सेवकः स्वगृहे स्थापितः । एकदा कदाचित्काचित् पुण्यतिथिः प्राप्ता । तदवसरे गाथापतिना प्राङ्गणोपलेपनाय सुन्दरः सेवको नियोजितः । स च सुन्दरो गोमयमानीतवान् परन्तु गोमयेन साकं पुरीषमपि-आनीय प्राङ्गणस्योपलेपनादिकं कृतवान् । यदा तु गाथापतिः समागतः तदा दुरभिगन्धयुक्तद्रव्येण लिप्त प्राङ्गणमिति मत्वा भृत्यं भर्त्सितवान् । तथा च-यथा दृष्टान्तेऽपवित्रदुर्गन्धिमनुष्यपुरीषेण संसृष्टं गोमयमपि दुर्गन्धकारणम् । एवमेव-दार्टान्तिकेऽशुद्धाहारसंसृष्टः शुद्धाहारोऽपि दोषाय एवेति । For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy