SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यूणिभाष्यावचूरिः उ० १ सू० ४१-४३ दण्डकादिपरिघट्टन-पात्रसन्धाननिषेधः १९ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः श्रमणः 'लाउपायं वा' अलाबूपात्रं वा-तूंबीपात्रं वा, 'दारुपायं वा दारुपात्रं वा, तत्र-दारु-काष्ठं तत्संबन्धि पात्रं वा, 'मट्टियापायं वा' मृत्तिकापात्रं वा, एतानि त्रीणि अलाबूप्रभृतिपात्राणि 'अण्णउत्थिएण वा' अन्ययूथिकेन अन्यतीर्थिकेन वा, 'गारथिएण वा' गृहस्थेन वा 'परिघटावेइ वा' परिघट्टयति-निर्मापयति वा 'संठवेइ' संस्थापयति वा -पात्रमुखादीनां निर्माणं कारयति 'जमावेइ वा' यमयति वा-संयमयति वा पात्रैकदेशोच्चनीचप्रदेशं समीकारयति । अलं-पर्याप्तम् 'अप्पणो करणयाए' आत्मना करणतया स्वयं कर्तुं न शक्यते । 'मुहुममवि' सूक्ष्ममल्पमपिः 'नो कप्पइ' नो कल्पते । एवं स्वशक्ति. 'जाणमाणे' जानानः 'सरमाणे' स्वसामय स्मरन् सन् वा 'अण्णमण्णस्स' अन्यान्यस्मै अन्यस्मै अन्यस्मै इत्यर्थः, तत्र-अन्यतीथिंकाय गृहस्थाय वा 'वियरइ' वितरति समीकरणाद्यर्थाय पुनरग्रहणाय वा ददाति । 'वियरंतं वा साइज्जई' वितरन्तं ददतमन्यं वा स्वदतेऽनुमोदते इति । यदि कश्चित् श्रमणः तुम्बादिपात्रं स्फुटितं गृहस्थादिद्वारा संधापयति नवीनं वा निर्मापयति किंचिदपि विषमं समौकारयति सूक्ष्ममपि कार्य करोति-कारयति-कुर्वन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग्भवति । एतेषां करणेऽन्यद्वारा संपादने वा दाने वा षड्विधजोवनिकायानामुपमर्दसंभवेन साधुभिस्तत्याज्यम् ॥ सू० ४० ॥ सूत्रम्--जे मिक्खू दंडयं वा लट्ठियं वा अवलेहणियं वा वेणुसूइयं वा अन्नउत्थिएण वा गारथिएण वा परिघट्टावेइ संठवेइ जमावेइ वा अलमप्पणो करणयाए सुहुममवि नो कप्पइ जाणमाणे सरमाणे अण्णमण्णस्स वियरइ वियरतं वा साइज्जइ ॥ सू० ४१ ॥ छाया-यो भिक्षुः दण्डकं वा यष्टिकां वा अवलेहनिकां वा-वेणुसूचिकां वा अन्य-यूथिकेन वा गृहस्थेन वा परिघट्टयति संस्थापयति यमयति वा अलमात्मनः करणतया सूक्ष्ममपि नो कल्पते जानानः स्मरन् अन्याऽन्यस्मै वितरति वितरन्तं वा स्वदते । सू० ४१॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू यो भिक्षुः श्रमणः ‘दंडयं वा' दण्डकं वा, तत्र-दण्डो गमनसहायको लोकप्रसिद्धः, 'लटियं वा यष्टिकां वा, तत्र-यष्टिर्वशादिनिर्मितो लघुदण्डविशेषः, तां वा । 'अवलेहणियं वा' अवलेहनिकां वा वर्षासमये चरणसंलग्नकर्दमप्रोञ्छनशलाकाविशेषः । 'वेणुसूइयं वा' घेणुसूचिकां वा, तत्र-वेणुवंशस्तन्मयौं सूची वंशशलाकामित्यर्थः । एतत्पूर्वोक्तं 'सर्व वस्तु 'अन्नउत्थिएण वा गारथिएण वा' अन्ययूथिकेनाऽन्यतीर्थिकेन वा गृहस्थेन वा "परिघट्टावेई' परिघट्टयति परिघट्टनं निर्मापणम् ततश्चाऽन्यद्वारा दण्डादि निर्मापयतीत्यर्थः । 'संठवेइ' For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy