________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४३४
निशीथसूत्रे
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः निरवद्यभिक्षणशीलः अष्टविधकर्मक्षपको वा 'पंचमासियं पाञ्चमासिकम् - पञ्चभिर्मासैर्निवर्त्तन योग्यम् ' परिहारद्वाणं' परिहारस्थानम्–पापस्थानम् ‘पडिसेवित्ता' प्रतिसेव्य तत्प्रतिसेवनां कृत्वा 'आलोएज्जा' मालोचयेत् आलोचनां कुर्यात् तत्र 'अपलिउंचिय' अपरिकुध्य- मायामकृत्वा 'आलोएमाणस्स' आलोचयतः 'पंचमासिय' पाञ्चमासिकं - लघुकं गुरुकं वा प्रायश्चित्तं प्रतिसेवनानुसारि गुरुर्दधात् । 'पलिउंचि आलोएमाणस्स' परिकुच्य - मायां कृत्वा आलोचनां कुर्वतः श्रमणादेः 'छम्मासिय' षाण्मासिकम् - लघुकं गुरुकं वा प्रतिसेवनाऽनुसारि प्रायश्चित्तं गुरुभिर्दातव्यमिति । षाण्मासिकप्रायश्चित्तविषये परिकुञ्चके मेघदृष्टान्तः यथा शरत्कालिको मेघो गर्जनं कृत्वा नो वर्षति, एवं हे शिष्य ! स्वमपि आलोचयामीत्येवं प्रकारेण प्रतिज्ञां कृत्वा आलोचयितुं नारब्धवानसि तत्र यदि मायां करिष्यसि तदा प्रतिज्ञाभ्रष्टो भविष्यसि अतः सम्यगालोचय इति । तत्र द्वैमासिकादि - परिहारस्थानेषु मायापूर्वकालोचके यथाक्रममिमे दृष्टान्ताः संभवन्ति तद्यथा - द्वैमासिकं परिहारस्थानं प्राप्तस्य प्रतिकुश्चकस्य दृष्टान्तः तापसः १, त्रैमासिकं परिहारस्थानं प्राप्तस्य योधो दृष्टान्तः २, चातुर्मासिकं परिहारस्थानं प्राप्तस्य मालाकारो दृष्टान्तः ४, पाश्चभासिकं परिहारस्थानं प्राप्तस्य मेो दृष्टान्तः ५ । तत्र प्रतिकुश्ञ्चनायां कृतायाम् 'सम्यगालोचय मा प्रतिकुश्चनां कुरु' एवमुपलब्धो यदि वदेत् भगवन् ! नो कुप्यतु सम्यगालोचयामि । ततः स श्रुतव्यवहारी गुरु: वारत्रयमालोचनां शृणुयात् । तत्र त्रिभिर्वारैर्यदि सदृशमालोचयति तदा ज्ञातव्यं यदयं सम्यकू प्रतिक्रान्त इति तदनन्तरं यद्देयं प्रायश्चित्तं तद्दातव्यमिति । अथ यदि विसदृशमालोचयति तदा यथायोग्यमधिकाधिकं प्रायश्चित्तं दद्यात् यावत् षाण्मासिकमिति ॥ सू० ५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रम् — तेण परं पलिउंचिए वा अपलिउंचिए वा ते चैव छम्मासा || सू० ६ ॥
छाया- - ततः परं परिकुञ्चिते वा अपरिकुञ्चिते वा ते पत्र षण्मासाः ॥ सू० ६ ॥
चूर्णी - पाश्चमासिकपरिहारस्थानसूत्राणि कथयित्वा षाण्मासिकपरिहारस्थानविषये प्राह'तेण परं' इत्यादि । 'तेण परं' ततः परम् ततोऽनन्तरम् पाश्चमासिकात् परिहारस्थानात् परम्-आलोचनाकाले 'पलिउंचिए वा' परिकुञ्चिते वा - मायासहिते वा 'अपिलउंचिए वा ' अपरिकुञ्चिते वा मायारहिते वा मायापूर्वकममायापूर्वकं वा आलोचिते इत्यर्थः 'ते चेव छम्मासा' ते एव - षण्मासाः त एव प्रतिसेवनानिष्पन्ना एव षण्मासाः षडेव मासा नाधिकं प्रतिकुश्चनानिमित्तमारोपणं वर्त्तते तदधिकप्रायश्चित्तस्य अभावादिति ॥ सू० ६ ॥
For Private and Personal Use Only