SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निशीथसूत्रे १२४ स्वपापप्रकाशनरूपां-कुर्वतः श्रमणस्य श्रमण्या वा मासिकं गुरुकं लघुकं वा प्रतिसेवनाsनुसारि प्रायश्चित्तं भवति, पापस्थानस्य प्रतिसेवनां कृत्वा कपटरहितभावेन उपागताय शिष्याय प्रतिसेवनानुसारि लघुकं गुरुकं वा प्रायश्चित्तं गुरुर्दधात् इत्यर्थः । 'पलिउंचिय आलोएमाणस्स दोमासियं' परिकुच्य आलोचयतो द्वैमासिकम् परिकुच्य द्वैमासकपटम् आलोचयत आलोचनां कुर्वतः शिष्यस्य सिकं लघुकं गुरुकं वा प्रायश्चित्तं गुरुर्दद्यादिति । यदत्र मासिकं प्रायश्चित्तं कथितं तत्र मासः पञ्चप्रकारको भवति तद्यथा-नक्षत्रमासश्चन्द्रमास ऋतुमास आदित्यमासोऽभिवद्धि तमासश्च, तत्र नक्षत्रमासः सप्तविंशत्यहोरात्रप्रमाणः तथा एकस्याहोरात्रस्य च एकविंशतिः सप्तषष्टिभागाश्च (२७३९ एष लक्षणतः परिमाणतश्च नक्षत्रमासः । चन्द्रमास एकोनत्रिंशदहोरात्रप्रमाणः तथा एकस्याहोरात्र दिनस्य च द्वात्रिंशद् द्वाष. ष्टिभागाश्च (२९-३०)। ऋतुमासः त्रिंशदहोरात्रप्रमाणः (३०)। आदित्यमासः सार्द्धत्रिंशदिनप्रमाणः (३०)। अभिवर्द्धितमासस्तु एकत्रिंशदिनानि, एकस्य च दिनस्य चतुर्विशत्यधिकशतस्खण्डितस्य एकविंशत्यधिक भागशतम् (३१२२१) । उक्तञ्च एक्कत्तीसं च दिणा, दिणभागसयं तहेक्कवीसं च । अभिवढिओ उ मासो, चउवीससरण छेदेण ॥ छाया-एकत्रिंशच्च दिनानि दिनभागशतं तथैकविंशतिश्च ।। अभिवद्धितस्तु मासः, चतुर्वि शशतेन छेदेन ॥ इति। अत्र तेषां पञ्चानामपि नासानां मध्ये कर्ममासेनाऽधिकारः, तत्र क्रममासः ऋतुमासः त्रिशदिनात्मकः, तपश्चर्यादिकं प्रायश्चित्तं च ऋतुमासेनैव भवति । प्रायश्चित्तदाने ऋतुमासस्यैवाधिकारादिति । अथ यदत्र सूत्रे प्रतिसेवनमशुभकर्मणां कथितं तत् प्रतिसेवनं द्विविधं मूलगुणप्रतिसेवनमुत्तरगुणप्रतिसेवनं च, तत्र पुनर्मूलगुणप्रतिसेवनं पञ्चविधं पञ्चमहावतात्मकम् , उत्तरगुणप्रतिसेवन दशविधम् आलोचनार्ह १-अतिक्रमणार्ह २-तदुभयाई ३-विवेकाह ४-व्युत्साह ५-तपोऽहं ६-छेदाई ७ - मूला ८-नवस्थाप्याई ९-पाराञ्चिक १०-भेदात् । पुनरपि एकैकं द्विविधं द्रव्येण कल्पेन च, इदं प्रति सेवनं कर्मोदयेन भवति, कर्म च प्रतिसेवनया भवति बीजाङ्कुरवत् अनयोः परस्परापेक्षत्वम्, एतादृशप्रतिसेवनस्याऽऽलोचनं द्विप्रकारेण भवति शुद्ध भावेन कपटभावेच, तत्र शुद्धभावेन मालोचयतः शुद्धिर्भवति, कपटभावेन आलोचयतस्तु शुद्धिर्न भवति । तत्र दृष्टान्तो यथा-आसीत् कश्चित् नर्मदातटे निवसन् बुभुक्षया खिन्नः तापसः फलमूलादिकमानेतुं वनं गतवान्, तत्र इस्तत परिभ्रमन् नर्मदातटे कुत्रचित् मृतमत्स्यकलेवरं प्राप्तवान्, प्राप्य तमेवानीय भक्षयित्वा बुभुक्षामपनीतवान् परन्तु मत्स्य For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy