________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४१२
निशोथसत्रे चूर्णी-'त सेवमाणे" इत्यादि । 'तं सेवमाणे' तत् अष्टादशोदेशकोक्तं प्रायश्चित्तस्थानम् 'सेवमाणे' सेवमानः-तादृशप्रायश्चित्तस्थानस्य प्रतिसेवनां कुर्वन् श्रमणः श्रमणी वा 'आवज्जइ आपद्यते-प्राप्नोति-'चाउम्मासियं' चातुर्मासिकम् 'परिहारहाणं' परिहारस्थानं-प्रायश्चितम् 'उग्धाइयं' उद्घातिकं लघुकम्, नौकारोहणत आरभ्य वस्त्रनिश्रया वर्षावासनिवासपर्यन्तोकेषु अकृत्यस्थानेषु मध्यात् एकं द्विकम् अनेकं सर्व वा पापस्थानं सेवमानः श्रमणः श्रमणी वा मधुचातुर्मासिकं प्रायश्चित्तं प्राप्नोति ॥ सू० ९१ ॥ इति श्री विश्वविख्यात–जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापकप्रविशुद्धगद्यपधनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहछत्रपतिकोल्हापुरराजप्रदत्त"जैनशास्त्राचार्य"-पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्री-घासीलालव्रति-विरचितायां "निशीथसूत्रस्य" चूर्णिभाण्यावचूरिरूपायां व्याख्यायाम् अष्टादशोदेशकः समाप्तः ॥१८॥
For Private and Personal Use Only