________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निशीथसूत्रे
अत्राह भाष्यकार:भाष्यम्-निग्गंथो तह निग्गंथी, सस्स सस्स परोप्परं ।
__ संतावासं न जं देई, आणाभंगाइ पावई ॥१॥ छाया निम्रन्थस्तथा निर्ग्रन्थी स्वस्य स्वस्व परस्परम् ।
सन्तमावासं न यत् ददांति, आशाभङ्गादि प्रानोति ॥१॥ अवचूरिः- निर्ग्रन्थः साधुः तथा निम्रन्थी साध्वी स्वस्य स्वस्य परस्परं साधुः समानसामाचारीकाय साववे, साध्वी समानसामाचारीकायै साध्यै सन्तं विद्यमानं स्वस्थितोपाश्रये आवासं सदपि निवासस्थानं यत्- यदि न ददाति तदा सः साधुः साध्वी वा आज्ञाभङ्गादिदोषान् प्राप्नोतीति || स० २४० ॥
सूत्रम्-जे भिक्खू मालोहडं असणं वा पाणं वा खाइमं वा खाइमं वा दिज्जमाणं पडिग्गाहेइ पडिग्गाहेंतं वा साइज्जइ ॥ सू० २४१॥
___ छाया - यो भिक्षुर्मालावहृतम् अशनं वा पानं वा खाद्यं वा स्वाद्यं वा दीयमानं प्रतिगृह्णाति प्रतिगृहन्तं वा स्वदते ॥ सू० २४१ ॥
चूर्णिः- 'जे भिक्खू' इत्यादि । 'जे भिक्खू यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'मालोडर्ड' मालाऽवहृतम्, तत्र मालावहृतम्-मालः स्थानविशेषः तस्माद् अवहृतम्-अपकृष्टं मालावहृतम्-तत् त्रिविधम् -ऊर्ध्वाधस्तिर्यग्भेदात्, तत्र ऊर्ध्वमालावहृतम्-उच्चप्रदेशात् निश्रेण्यादिनाऽवतारितम् १ अधोमालावहृतम् -भूमिगृहादित आनीतम् २, तियेङ्मालावहृतम् - मञ्चादितोऽवलारितम् ३ । एतादृशम्, 'असणं वा' अशनं वा 'पाणं वा' पानं वा 'खाइमं वा' खाद्य वा 'खाइमं वा' स्वाद्यं वा चतुर्विधमाहारजातम् 'दिज्जमाणं' दीयमानम्, यो भिक्षुः 'पडिग्गाहेइ' प्रतिगृह्णाति-स्वीकरोति तथा 'पडिग्गाहेंतं वा साइज्जई' प्रतिगृह्णन्तं वा श्रमणान्तरं स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ।। सू० २४१॥
सूत्रम्-जे भिक्खू कोट्ठाउत्तं असणं वा पाणं वा खाइमं वा साइमं वा उक्कुज्जिय णिक्कुज्जिय दिज्जमाणं पडिग्गाहेइ पडिग्गाहेंत वा साइज्जइ ॥ सू० २४२ ॥
छाया–यो भिक्षुः कोष्ठायुक्तम् अशनं वा पानं वा खाद्यं वा स्वाद्यं वा उत्कुज्य निष्कुब्ज्य दीयमानं प्रतिगृहाति प्रतिगृहन्तं पा स्वदते ।। २४२ ॥ .
___ चूर्णी--'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'कोहाउत्तं' कोष्ठायुक्तम् , तत्र कोष्ठं नाम-मृत्तिकादिनिर्मितपुरुषैकप्रमाणं ततो हीनमधिकं वा 'कोठा' इति लोकप्रसिद्ध तादृशकोष्ठादौ स्थितम् 'असणं वा' अशनं वा 'पाणं वा' पानं वा
For Private and Personal Use Only