SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निशीथसूत्रे mmmmmmmmmmm सूत्रम्-जे भिक्खू सूचीए उत्तरकरणं वा अन्नउथिएण वा गारथिएण वा करेइ करेंतं वा साइज्जइ ॥ सू० १६॥ छाया-यो भिक्षुः सूच्या उत्तरकरणम् अन्ययूथिकेन वा गृहस्थेन वा करोति कुर्वन्तं वा स्वदते ॥ सू० १६ ॥ चूर्णी--'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिभिक्षुः 'सूचीए उत्तरकरण' सूच्या उत्तरकरणम्, तत्र 'सूची सूई' इति प्रसिद्धा, तस्या उत्तरकरणं तीक्ष्णतादिसंपादनम् । 'अन्नउत्थिरण वा' अन्ययूथिकेन तीर्थान्तरिकेण 'गारथिएण वा' गृहस्थेन श्रावकादिना वा करोति 'करेंतं वा साइज्जई' कुवेन्तं वा स्वदते अनुमोदते । यो हि भिक्षुः सूच्योत्तरकरणमन्यतीथिंकेन करोति अथवा कुर्वन्तमनुमोदते, स साधुः माज्ञाभंगादिकान् दोषान् प्राप्नोति ॥ सू० १६ ॥ अत्राह भाष्यकार :-- भाष्यम्-बिलवड्ढकरणं लण्हस्स करणं तहा । पज्जलणं उजुकरणं उत्तरकरणं बुहा ॥ छाया-बिलवर्धनकरणं ग्लक्ष्णस्य करणं तथा । प्रज्वलनम् ऋजुकरणमुत्तरकरणं बुधाः ॥ अवचूरिः--'बिलवड्ढकरणं इत्यादि । सूच्या-उत्तरकरणम् तत्र किमिद मुस्तरकरणं तबाह भाष्यकारः बिलवर्धनकरणमित्यादि । बिलवर्धनकरणं सूच्या यत्-बिलं छिद्रं तस्य बर्द्धनं वृद्धिः तस्य करणं संपादनम् , तथा-श्लक्ष्णस्य-मूच्छितस्य कार्ये मन्दतामुपगतस्य तीक्ष्णीकरणम्-शिला घर्षणादि । तथा पज्जलणं प्रज्वलनम्-मन्दलौहस्याऽग्नौ संताप्य सन्ताड्य जले प्रक्षिप्योज्वलीकरणम् । तथा ऋजुकरणम्-वक्रस्य-कुटिलस्य सरलता संपादनम् । एतत्सर्वमुत्तरकरणशब्देन प्रतिपादितम् । सूच्याः उत्तरकरणे यस्मादग्निकायविराधनद्वारा षट्कायविराधना आज्ञाभंगादिका दोषा भवन्ति । तस्मात्सूच्या उत्तरकरणं न कुर्यान्नवा-कुवन्तमनुमोदयेत्, अन्यथा प्रायश्चित्तभाग् भवतीति ॥ १६ ॥ सूत्रम्-जे भिक्खू पिप्पलगस्स उत्तरकरणं अन्नउत्थिएण वा गारथिएण वा करेइ करेंतं वा साइज्जइ ॥ सू० १७॥ छाया-यो भिक्षुः पिप्पलकस्य उद्धरकरणमन्ययूथिकेन वा गृहस्थेन वा करोति कुर्वन्तं वा स्वदते ॥ सू. १७ ॥ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy