________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चूर्णि भाष्यावचूरिः उ ११ सू० ६९-७२ आगन्त्रागारादिषु - उच्चारादिपरिष्ठापननि० ३५३
छाया यो भिक्षुः आगन्त्रागारेषु वा आरामागारेषु वा गाथापतिकुलेषु वा पर्यावसथेषु वा उच्चारप्रस्रवणं परिष्ठापयति परिष्ठापयन्तं वा स्वदते ॥|| सू० ६९ ॥
चूर्णी - 'जे भिक्खू' इत्यादि । जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रभणी वा 'आगंतागारेसु वा' आगन्त्रागारेषु, यत्र स्थाने आगन्तारो गन्तारश्च विश्रामाय निवसन्ति सः आगन्त्रागारः - धर्मशाळेति लोकप्रसिद्धः तेषु - आगन्तुक निवासस्थानेषु तथा - 'आरामागारेसु वा ' आरामागारेषु, तत्रारामः - उपवनम् तत्र विद्यमानः अगारो गृहं यत्र क्रीडार्थमागताः पुरुषाः विश्रामार्थं निवसन्ति तादृशस्थानेषु 'गाहावइकुलेसु वा' गाथापतिकुलेषु, तत्र गाथापतिर्गृहस्थः, तस्य कुलेषु गृहेषु गृहस्वामिनां ग्रामान्तरगमनेन शून्यप्रायेषु गृहेष्वित्यर्थः 'परियावसहेसु वा' पर्यावसथेषु वा तापसानां निवासस्थानेषु इत्यर्थः, एतेषु स्थानेषु ' उच्चार पासवणं' उच्चारप्रस्रवणं मूत्रपुरीषादिकम् उपलक्षणत्वात् ष्ठीवनादिकमपि गृह्यते 'परिट्ठवेइ' परिष्ठापयति तत्र व्युत्सृजतीत्यर्थः तथा 'परिद्ववेंत वा साइज्जइ' परिष्ठापयन्तं वा मूत्रपुरीषादीनां व्युत्सर्जनं कुर्वन्तं श्रमणान्तरं स्वदते - अनुमोदते
प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका. दोषा अपि भवन्ति, तथा ये एतादृशस्थानेषु उच्चारप्रस्रवणादिकं व्यत्सृजन्ति तेषामपयशो भवति - 'एते साधवः अशुचिसमाचाराः योगाचारबाह्या मलमूत्रपरायणाः दुर्वृत्ता भोगोपभोगस्थानानि अपवित्राणि कुर्वन्तो विहरन्ती, - त्येवमाद्यपयशी भवति, लोकापवादाच्च न कोऽपि दीक्षां ग्रहीष्यतीत्यतः प्रवचनस्य हानिहलना च भवति एवं कोट्टपालादिना निवारिता ग्रामादौ प्रवेशमपि नो लभेरन् ॥ सू० ६९ ॥
सूत्रम् — जे भिक्खू उज्जाणंसि वा उज्जाणगिहंसि वा उज्जाण - सालंसि वा निज्जाणंसि वा निज्जाणगिहंसि वा निज्जाणसालंसि वा उच्चारपासवणं परिgas परिद्ववेंतं वा साइज्जइ || सू० ७० ॥
छाया - यो भिक्षुरुद्याने वा उद्यानगृहे वा उद्यानशालायां वा निर्याणे वा निर्याणगृहे वा निर्याणशालायां वा उच्चारप्रेस्स्रवणं परिष्ठापयति परिष्ठापयन्तं वा स्वदते सू० ७० ॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'उज्जाणंसि वा' उद्याने वा, तत्रोद्यानं नाम एकजातीयवृक्षाणां समुदायलक्षणम्, तादृशे उद्याने 'उज्जाणगिहंसि वा' उद्यानगृहे वा उद्यानस्थिते गृहे विश्रामस्थाने 'उज्जाणसालसि वा' उद्यानशालायाम् उद्याने स्थिता या शाला तस्याम् 'निज्जाणंसि वा' निर्याणे वा लोकानां गमनागमनमार्गे 'निज्जाण गिर्हसि वा' निर्याणगृहे वा गमनागमनमार्गस्थितगृहे वा 'निज्जाणसालसि वा' निर्याणशालायां वा तादृशेषु स्थानेषु श्रमणः श्रमणी वा 'उच्चारपासवणं' उच्चारप्रत्रवणं 'परिद्ववेइ' परिष्ठापयति मूत्रपुरीषयोर्व्युत्सर्जनं करोति 'परिद्ववेंतं वा 'परिष्ठापयन्तं वा 'साइज्जइ' स्वदते स प्रायश्चित्तभागी भवति ।। सू० ७० ||
४५
For Private and Personal Use Only