SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org चूर्णि भाग्यावचूरिः उ. १५ स् १३-६८ अन्य तीर्थकादितः पादामार्जनादिनिषेधः ३५१ चूर्णी -- 'जे भिक्खु' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'सचित्तपइद्वियं' सचित्तप्रतिष्ठितम्, इतिविशेषणविशिष्टमा म्रादिकं विदशति - चूषति शेषं सुगमम् । अत्राह भाष्यकारः- सचित्तंवं तहा पेसिं, तं सचित्तपट्ठियं । जो भुंजेज्ज विडंसेज्ज, आणाभंगाइ पाइ ॥ १ ॥ छाया - सविता तथा पेशीं, तत्सचित्तप्रतिष्ठितम् । यो भुङ्क्ते विदशति, आज्ञा भङ्गादि प्राप्नोति ॥ १ ॥ Acharya Shri Kailassagarsuri Gyanmandir आम्र अवचूरिः - यः कश्चिद् भिक्षुः - श्रमणः उपलक्षणात् श्रमणी वा स सचित्ताम्रम् - सचित्ताम्रफलम् तथा पेशीम्-आम्रचीरिकाम् उपलक्षणाद् --आश्रभितं आम्रसालकम् आम्रचोयगं वा, फलस्य कोऽपि प्रकारो भवेत् तं सचित्तं यदि भुङ्क्ते विदशति वा तदा स श्रमणः आज्ञाभङ्गादिदोषान् प्राप्नोतीति ॥ सू० १२॥ सूत्रम् -- जे भिक्खू अण्णउत्थिष्ण वा गारत्थिएण वा अप्पण - पाए आमज्जा वेज्ज वा पमज्जावेज्ज वा आमज्जावेंतं वा पमज्जावेंतं वा साइज्जइ ॥ सू० १३॥ छाया - यो भिक्षुरन्ययूथिकेन वा गाईस्थिकेन वा आत्मनः पादौ आमार्जयेवू वा प्रमार्जयेद् वा आमार्जयन्तं वा प्रमार्जयन्तं वा स्वदते ॥ सू० १३ ॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः- :- श्रमणः श्रमणी वा 'अण्णउत्थिपण वा' अन्ययूथिकेन - अन्यमतानुयायिना तापसादिनेत्यर्थः ' गारस्थिपण वा' गार्हस्थिकेन गृहस्थेन श्रावकेण तद्भिन्नेन वा 'अप्पणो पाए' आत्मनः स्वस्य पादौ - चरणौ 'आमज्जा वेज्ज वा' आमार्जयेद्वा- एकवारं वा मार्जनं कारयेद्वा 'पमज्जावेज वा' प्रमार्जयेद्वा अनेकवारं वा प्रमार्जनं कारयेद्वा, तथा 'आमज्जावेंतं वा' आमार्जयन्तं वा एकवारं चरणमार्जनं कारयन्तं वा 'मज्जावेंतं वा' प्रमार्जयन्तं वा - प्रतिदिनमनेकवारं वा पादयोः प्रमार्जनं कारयन्तं श्रमणान्तरम् 'साइज्जइ' स्वदते - अनुमोदते स प्रायश्चित्तभागी भवति तथा तस्याज्ञाभङ्गादिका दोषा अपि भवन्ति ॥ सू १३ ॥ सूत्रम् — एवं तइयउद्दसगमओ यव्वो जाव गामाणुगामं दृइज्जमाणे अण्णउत्थिएण वा गारत्थिएण वा अप्पणो सीसदुवास्यिं करावे करावेंतं वा साइज्जइ ॥ सू० १४-६८ ॥ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy