________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८
निशीथ सूत्रे
द्विप्रकारको भवति, एको वसति संबद्धो द्वितीयस्तदितरः, वसत्यसंबद्धः । पुनश्च वसति संबद्धो जलप्रवाहो वक्ष्यमाणप्रभेदतस्त्रिविधः त्रिप्रकारको भवति । अर्थात् वर्षासमये वा - उदकवीणिका क्रियते सा द्विविधा वसतिसंबद्धा तदितरा च । तत्र वसतिसंबद्धा त्रिविधा भवति, उपरि संबद्धावसतिमध्यसंबद्धा नीचैः संबद्धा च तत्र याऽसौ वसतिसंबद्धा - वाह्या सा नियमतः परिगलन - रूपा । याऽसावन्तः संबद्धा: - सा भूमौ निपतति, याऽसौ वसतिसंबद्धा - उपरिसम्बद्धा सा हतले छिद्रादिद्वारा वर्षासंबन्धिजलमुपाश्रये प्रविशति ॥ सू० १३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रम् — जे भिक्खु सिक्कगं वा सिक्कणंतगं वा अण्ण उत्थिकेण वा गारस्थिएण वा कारेइ करेंतें वा साइज्जइ ॥ सू० १४ ॥
छाया -यो भिक्षुः शिक्कं वा शिक्कांतकं वा अन्ययूथिकेन वा गृहस्थेन वा कारयति कुर्वन्तं वा स्वदते ॥ सू० १४ ॥
चूर्णी - 'जे भिक्खू सिक्कगं वा' इति । 'जे भिक्खू' यो भिक्षुः निरवद्यभिक्षणशीलः, 'सिक्कगं वा सिक्कणंतगं वा' शिक्कं वा शिक्कांतकं वा, तत्र शिक्कं “सीक" इति लोकप्रसिद्धम् । अथवा - यादृशो हि परिव्राजकस्य भवति भिक्षान्नस्थापनाय मूषक - मार्जारादिभ्यो भिक्षान्नस्य रक्षणाय संकेतितपात्र विशेषः । तथा शिक्कान्तरं शिक्कस्य पिधानं तदाच्छादकं वा, 'अन्न उत्थिषण वा गारस्थिपण वा' अन्ययूथिकेनाऽन्यतीर्थिकेन शाक्यभिक्षुकादिना गृहस्थेन केनचित् श्रावकादिना वा 'करेइ' कारयति - स्वयं करोति, अथवा - अन्यद्वारा कारयति, 'करेंतं वा साइज्जइ' कुर्वन्तं वा स्वदते - अनुमोदनं करोति स साधुः प्रायश्चित्तस्य भागी भवतीति ॥ सू० १४ ॥
अत्राह भाष्यकार -
भाष्यम् – सिक्कगं दुविहं वृत्तं तसथावर निम्मियं । पढमं अंडजाजायं वीयं य विविहं मयं ॥ ॥ छाया - शिक्ककं द्विविधं प्रोक्तं त्रसस्थाबर निर्मितम् । प्रथममण्डजाज्जातं द्वितीयं च विविधं मतम् ॥ ॥
अवचूरि : - 'सिक्कगं दुविहं' इत्यादि । साधुभिरनिष्पाद्यं शिक्ककं द्विविधं द्विप्रकारकं भवति । सस्थावरनिर्मितम् - त्रसकाय जीवदेहेन संपादितम्, तथा स्थावरका यजीवदेहेन निर्मित संपादितम् । तत्र द्विविधशिक्ककमध्ये प्रथमम् - अंडजात् - अंडज - मयूर - हंसादिजीव पक्षात्संपा दितम् | अंडजदेहात् - वालयदेहात् पट्टकोशिकादिजीवविशेषात् स्नायुतो वा जायमानम् । द्वितीय स्थावरजीवदेहनिर्मितन्तु विविधम् अनेकप्रकारकं भवति । तथाहि - कार्पास - नारिकेल - मुञ्ज -दर्भ
For Private and Personal Use Only