________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पूर्णिभाष्यावप्रिः २०१४ सू०९-३१ प्रतिप्रहस्य वर्णादिविपर्ययकरणनिषेधः ३३१
चूर्णी-जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'पडिग्गई' प्रतिप्रहं पात्रम् 'अलं' मलं पर्याप्तम् 'थिर स्थिरं दृढम् 'धुवं' ध्रुवं चिरकालपर्यन्तमपि स्थायि 'धारणिज्ज' धारणीयं धर्तुं योग्यं पात्रस्य यत् लक्षणं प्रदर्शितम् तादृशलक्षणयुक्तम् 'न घरेई' न धरति यत् पात्रं कार्यकरणसमर्थ दृढं चिरकालस्थायि सर्वलक्षणलक्षितं न धरति न स्वकीय. पार्श्वेऽवस्थापयति तथा 'न धरतं वा साइज्जई' न धरन्तं वा स्वदते, यो हि भिक्षुः सर्वथालक्षणादिसम्पन्नमपि पात्रादिकं न धरति तस्यानुमोदनं करोति स प्रायश्चित्तभागी भवति ।। सू०९।।
सूत्रम्-जे भिक्खू वण्णमंतं पडिग्गहं विवण्णं करेइ करें वा साइज्जइ ॥ सू० १०॥
छाया-यो भिक्षुर्वर्णवन्तं प्रतिग्रहं विवर्ण करोति कुर्वन्तं वा स्वदते ॥ सू० १०॥
चूर्णी-जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चित् भिक्षुः 'वण्णमंतं पडिग्गहे' वर्णवन्तं प्रतिमहं शोभायुक्तम् ‘विवणं करेइ' विवर्ण करोति, तत्र कुत्सितो वर्णो नीलादिकः यस्य दर्शनेन मनसि अप्रीतिर्जायते तादृशेन कुत्सितवर्णेन युक्तं करोति 'करेंतं वा साइज्जइ' कुर्वन्तं वा स्वदते स प्रायश्चित्तभागी भवति ।। सू० १०॥
सूत्रम्-जे भिक्खू विवण्णं पडिग्गहं वण्णमंतं करेइ करेंत वा साइज्जइ ॥सू० ११॥
छाया-यो भिक्षुर्विवर्ण प्रतिग्रहं वर्णवत् करोति कुर्वन्तं वा स्वदते ॥ स्० ११ ॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चित् भिक्षुः 'विवणं पडिग्गह' विवर्ण प्रतिग्रहं पात्रम् विगतवर्ण क्षारत्तिकोष्णजलादिना विगतवर्ण प्रतिग्रहं पात्रादिकं पुनरपि 'वणमंतं करे' वर्णवत् करोति शोभनवर्णयुक्तं करोति 'करेंतं वा साइजई' कुर्वन्तं वा स्वदते स प्रायश्चित्तभागी भवति ॥ सू० ११ ॥
सूत्रम्-जे भिक्खू नवए मे पडिग्गहे लढे त्ति हुटु तेल्लेण वा घरण वा णवणीएण वा वसाए वा मक्खेज्ज वा भिलिंगेज्ज वा मक्तं वा भिलिंगेतं वा साइज्जइ ॥ सू० १२॥
छाया-यो भिक्षुर्नयो मया प्रतिग्रहो लब्ध इति कृत्वा तैलेन वा घृतेन वा नवनीतेन वा वसया या प्रक्षयेत् वा अभ्यङ्गयेत् वा म्रक्षयन्तं वा अभ्यङ्गयन्तं वा स्वदते ॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चित् भिक्षुः 'नवए मे पडिग्गहे लद्धे' नवो मया प्रतिग्रहो लब्धः प्रतिग्रहः पात्रं लब्धम् 'त्ति कटु' इति कृत्वा लब्धस्य प्रति
For Private and Personal Use Only