SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चर्णिभाष्यावचूरिः उ० १४ सू०३ प्रतिग्रहस्य परिवर्तनादिना ग्रहणनिषेधः ३३३ हे दयालो ! कुत्र भवान् निवासं करोति ? साधुरुवाच अमुकोपाश्रये सम्प्रति वसामि । ततो द्वितीयद्विवप्ते स गृहस्वामी गृहकार्य सर्व कृत्वा तस्मिन् उपाश्रये साधोर्दर्शनार्थ गतवान् । ततः स गृहस्वामी साधोर्वन्दननमस्कारादिकं विधाय समुपविष्टः, ततः स साधुस्तस्मै धर्मकथां कथितवान्-हे श्रावक ! सर्वो जीवः स्वस्वकर्मपराधीनः सर्वमपि कार्य करोति तत्र दयादिधर्मः सम्यक् पालनीयो येन इहलोके परलोके उभयत्रापि सुखं भवेत् , आरम्भसमारम्भादिकं जीवानां नरकपातायैव केवलं भवति । एवं क्रमेण वृहती धर्मकथां कथितवान् । ततः साधुमुखात् संसारस्य नवरभावं मोक्षस्य च शाश्वतभावं निरतिशय सुखरूपं च ज्ञात्वा संसारात् जातवैराग्योऽभवत् । तदीयस्वजनादयोपि नानाविधमभिग्रहं गृहीतवन्तः । सम्यक्त्वं प्रतिपन्नः सन् अणुः वतानि गृहीत्वा द्वादशव्रतधारी जातः । ज्ञातदासीवृत्तान्तो दासी मुक्तवान् । लोकोत्तरं प्रामित्यं साधुः साधुतः प्रामित्यं करोति, तत्रापि पुनरदाने परस्परं कलहवैमनस्यादयो बहवो दोषाः समापद्यन्ते, तस्मात् प्रामित्यपात्रादिग्रहणं न कार्यम् । उपलक्षणत्वात् वस्नाहारादिकं किमपि न ग्राह्यम् ॥ सू० २। सूत्रम्--जे भिक्खू पडिग्गहं परियट्टेइ परियट्टावेइ परियट्टियमाहटु दिज्जमाणं पडिग्गाहेइ पडिग्गाहतं वा साइज्जइ । सू० ३॥ छाया-यो भिक्षुः प्रतिग्रहं परिवर्तते परिवर्तयति परिवर्तितमाहृत्य दीयमानं प्रतिगृह्णाति प्रतिगृहन्तं वा स्वदते ॥ ० ३॥ । चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू यः कश्चिद् भिक्षुः 'पडिग्गह' प्रतिग्रह पात्रम् 'परियटेई परिवर्तते स्वयं परिवर्तनं करोति स्वकीयं पात्रम् अन्यस्मै ददाति अन्यस्य च पात्रं स्वयं गृह्णाति तथा 'परियघावेइ' परिवर्तयति अन्यद्वारा पात्रं परिवर्तयति 'परियहियमाहद दिज्जमाणं' परिवर्तितमाहृत्य दीयमानं परिवर्तितं पात्रं अभिमुखमागत्य ददतम् 'पडिग्गाहेई' प्रतिगृह्णाति स्वीकरोति तथा 'पडिग्गाहेंतं वा साइज्जइ' प्रतिगृह्णन्तं वा स्वदते स प्रायश्चित्तभागी भवति । अत्राह भाष्यकारः-- भाष्यम्-परिवट्टियं च दुविई, लोइय लोगुत्तरं समासेण । एक्केक्कंपि य दुविहं, तदब्वे अण्णदव्वे य ॥ छाया--परिवर्तितं च द्विविधं लौकिकं लोकोत्तर समासेन । एकैकमपि द्विविध तद्रव्ये अन्यद्रव्ये च ॥ . - अवचूरिः-स्त्रे परिवर्तितपात्रादेहणे तदुपगोगे च निषेधः कथितः, तत् परिवर्तित पात्रादिकं द्विविधं द्विप्रकारकं भवति–एक लौकिकमपरं लोकोत्तरं च, तत्र लौकिकं गृहस्थानां For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy