________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निशीथसूत्रे
चूर्णी -- 'जे भिक्खू अङ्गादाणं जिग्घर' इति । 'जे भिक्खू' यो भिक्षुः 'अंगादाणं' अङ्गादानम् जिग्ध जिति नासिकया तद्गन्धं गृह्णाति यद्वा हस्तेन मर्दयित्वा हस्ताऽऽगतं गन्धं जिप्रति 'जिग्वंतं' जिघंन्तं वा 'साइज्जइ' स्वदते तनुमोदते स चारित्रदोषभाग्भवति ।
अत्र दृष्टान्तमाह
यथा कोsपि घातक गन्धपदार्थं नासिकया जिघ्रति तस्य तद्गन्धेन प्राणवियोजनं भवति । यद्वा यथा कश्चित् राजकुमारः वैद्येन प्रतिषिद्धोऽपि आनं जिघ्रति आम्रं जिघ्रतस्तस्य 'आम्र' नामको व्याधिः समुत्पन्नः गन्धप्रियेण कुमारेण गन्धं जिघ्रता स्वात्मा जीविताद् भ्रंशितः । तथैवा - sङ्गादानं जिघ्रन्मुनिर्मोहोदयेन स्वात्मानं संयमजीविताद् भ्रंशयति ॥ सू० ८ ॥
सूत्रम् - जे भिक्खू अंगादाणं अण्णयरंसि अचित्तंसि सोयंसि अणुपवेसित्ता सुक्कपाले णिग्घाएइ णिग्घायंतं वा साइज्जइ ॥ सू० ९ ॥
छाया -- यो भिक्षुः अङ्गादानम् अन्यतरस्मिन् अचिन्त स्रोतसि अनुप्रवेश्य शुक्रपुद्गलान् निर्घातयति निर्घातयन्तं वा स्वदते ॥ सू० ९ ॥
चूर्णी - 'जे भिक्खू अंगादाणं अण्णयरंसि' इति । 'जे भिक्खू' यो भिक्षुः 'अंगादाणं' अङ्गादानम् 'अण्णयरंसि' अन्यतरस्मिन् बहूनां मध्ये एकस्मिन् कस्मिंश्चित् 'अचित्तंसि' अचित्ते 'सोयंसि' स्रोतसि - वलयादिच्छिद्रे 'अणुप्पवेसित्ता' अनुप्रवेश्य 'सुक्क - पोगले' शुकपुद्गलान् 'णिग्याए ' निर्घातयति - विनाशयति साधुर्निःसारयति, साध्वी च स्वयोनौ कदलीफलादि प्रवेश्य रजः पुद्गलान् निस्तारयति 'णिग्घायंतं वा' निर्घायन्तं वा 'साइज्जइ' स्वदते ससा च दोषभाग् भवति आत्मविराधनावान् भवति साध्वी दोषभागिनी आत्मविराधनावती भवति शुक्ररजःक्षयेण म्रियते इत्यर्थः एवं सर्वत्र साध्वीविषयेऽपि संयोज्यम् ॥ सू० ९ ॥
सूत्रम् — जे भिक्खू सचित्तं गंध जिग्घइ, जिग्धंतं वा साइज्जइ ॥ १० ॥ सूत्रम् -- जे भिक्खू सचित्तपइट्ठियं गंध जिग्घर जिग्घंतं वा साइज्जइ ॥ सू० ११ ॥
छाया - यो भिक्षुः सचित्तं गन्धं जिघ्रति जिघ्रन्तं वा स्वदते ॥ सू० १० ॥ यो भिक्षुः सचित्तप्रतिष्ठितं गन्धं जिघ्रत जिघ्रन्तं वा स्वदते ।। सू० ११ ॥
चूर्णी - 'जे भिक्खू सचित्तं गंधं' इति । स्पष्टम् । नवरम् - सचित्तं गन्धं पुष्पफलाद्याश्रितम् । उपलक्षणादचित्तं गन्धं चन्दनादिकमपि जिघ्रति, सचित्तप्रतिष्ठितमिति सचित्तज लघटाद्युपरि स्थापितं सचित्तमचित्तं वा गन्धं त्रिति स प्रायश्चित्तभाग्भवति ॥ सू० १०-११॥
For Private and Personal Use Only