SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पूर्णिभाष्यावचूरिः उ० १२ सू० १९-२३ प्रामादीनां मह-वध पथ-दाह-दर्शनेच्छानिषेधः २९३ छाया- यो भिक्षु मान् वा नगराणि वा निगमान् वा खेटानि वा कर्बटानि वा मडम्बानि वा द्रोणमुखानि वा पत्तनानि वा आकरान् वा संबाहान् वा संनिवेशान् वा चक्षुर्दर्शनप्रतिक्षया अभिसंधारयति अभिसंधारयन्तं वा स्वदते ॥ सू० १९॥ चूर्णी--- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'गामाणि वा' प्रामान् वा, तत्र ग्रामाः वृतिवेष्टिताः तान् ‘णगराणि वा' नगराणि वा नगराणि यत्र अष्टादशकरादिकं न गृह्यते तादृशानि स्थानानि, तानि, 'णिगमाणि वा' निगमान् वा, निगमाः प्रभूततरवणिग्जननिवासाः, तान् वा, 'खेडाणि वा' खेटानि वा, तत्र खेटानि नाम धूलिप्राकारवेष्टितानि, तानि 'कबडाणि वा' कबटानि वा, तत्र कटानि कुत्सितानि नगराणि, अल्पजननिवासस्थानानि वा 'मडंबाणि वा' मइंबानि वा' मडम्बानि सार्द्धकोशद्वयाभ्यन्तरे ग्रापान्तररहितानि, तानि, 'दोणमुहाणि वा' द्रोणमुखानि वा-द्रोणमुखानि जलस्थलोपेता जननिवासाः, तानि 'पट्टणाणि वा' पत्तनानि वा, तत्र पत्तनानि समस्तवस्तुप्राप्तिस्थानानि, तानि द्विविधानि जलपत्तनानि स्थलपत्तनानि च, तत्र नौभिर्येषु गम्यते तानि जलपत्तनानि, येषु च शकटादिभिर्गम्यते तानि स्थलपत्तनानि, तानि 'आकराणि वा' आकरान् वा सुवर्णादीनामुत्पत्तिस्थानानि 'संबाहाणि वा' संबाहान् वा, तत्र संबाहा नाम अन्यत्र कृषिबलैर्धान्यरक्षार्थ निर्मितानि दुर्गमस्थानानि, तान् 'संनिवेसाणि वा' संनिवेशान् वा, तत्र संनिवेशा:--समागतसार्थवाहादिनिवासस्थानानि, तान् 'चक्खुदंसणवडियाए' इत्यादि व्याख्या पूर्ववत् ॥ सू० १९॥ सूत्रम्-जे भिक्खू गाममहाणि वा णगरमहाणि वा णिगममहाणि वा खेडमहाणि वा कब्बडमहाणि वा मडंबमहाणि वा दोणमुहमहाणि वा पट्टणमहाणि वा आगरमहाणि वा संबाहमहाणि वा संनिवेसमहाणि वा चक्खुदंसणवडियाए अभिसंधारेइ अभिसंधारेतं वा साइज्जइ ।। सू०२०॥ छाया यो भिक्षुममहान् वा नगरमहान् वा निगममहान् वा कर्बटमहान् वा मडम्बमहान् वा द्रोणमुखमहान् वा पत्तनमहान् वा आकरमहान् वा संबाहमहान् वा संनिवेशमहान् वा बक्षुदर्शनप्रतिक्षया अभिसन्धारयति अभिसन्धारयन्तं वा स्वदते ॥२०॥ चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चित् भिक्षुः श्रमणः श्रमणी वा 'गाममहाणि वा' प्राममहान् वा, तत्र ग्रामस्य महा उत्सवा ग्राममहाः ग्रामोत्सवा इत्यर्थः तान् 'मेला' इति भाषाप्रसिद्धान् एवं नगरादिशब्दानां व्याख्या पूर्वसूत्रतो विज्ञेया, तेषां नगरादीनां पूर्वोक्तानां सर्वेषां महान नगरायुत्सवान् 'चक्खुदंसणवडियाए' चक्षुर्दर्शनप्रतिज्ञया इत्यादि न्याख्या पूर्ववत् ॥ सू० २०॥ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy