________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चूर्णी-भाष्यावचूरी टीका० उ० १ सू० १-५
अकुशलप्रतिसेवना 'साइज्जइ' स्वदते अनुमोदते स गुरुमासिकप्रायश्चित्तभाग्भवतीति प्रथमोदेशके सर्वसूत्रेषु संयोजनीयम् ॥ सू० १॥
सूत्रम्-जे भिक्खू अंगादाणं कटेण वा किलिंचेण वा अंगुलियाए वा सिलागाए वा संचालेइ संचालतं वा साइज्जइ ॥ सू० २॥
छाया-यो भिक्षुः अङ्गादानं काष्ठेन वा किलिंचेन वा अंगुलिकया वा शलाकया वा संचालयति संचालयंतं वा स्वदते ॥ सू० २ ॥
चूर्णी- 'जे भिक्खू अंगादाणं' इति 'जे भिक्खू' यो भिक्षुः 'अंगादाणं' अङ्गादानम् तत्राङ्गानि अष्टौ तानि चेमानि शिरः १ उरः २ उदरम् ३ पृष्ठम् ४ बाहुद्वयम् ५-६ ऊरुद्वयम् ७.८ चेति । उपलक्षणात् उपाङ्गनामानि ग्राह्याणि, तानि चेमानि-कौँ नासिके अक्षिणी जो हस्तपार्थाः नखाः केशाः श्मश्रु अंगुल्यः तलोपतलाः-हस्ततल-पादतल -समीपस्था भागाः, तेषाम् आदानम् उत्पत्तिकारणम् अङ्गादानम् उपस्थचिह्नम् तत् 'कटेण वा' काष्ठेन वा खदिरादिकाष्ठखण्डेन 'किलिंचेण वा' किलिञ्चेन वा वंशादिशलाकया वा । 'अंगुलियाए वा' अङ्गुलिकया- करचरणांगुलिना वा 'सिलागाए वा' शलाकया लोहादिनिर्मितशलाकया वा 'संचालेइ' संचालयति प्रेरयति, 'संचालतं वा' संचालयन्तं प्रेरयन्तम् 'साइज्जई' स्वदते अनुमोदते स प्रायश्चित्तभाग्भवतीति भावः । अत्र दृष्टान्तमाह
यथा कोऽपि पुरुषः सुखसुप्त सिंह काष्ठयष्टयादिना संचालयति तदा स सिंहः तं संचालक विनाशयति । एवमेव पुरुषचिह्नसंचालकस्य मुनेश्चारित्रजीवनं विनश्यतीति ॥ सू०२ ।।
सूत्रम्-जे भिक्खू अंगादाणं संवाहेज्ज वा पलिमद्देज्ज वा संवाहतं वा पलिमहतं वा साइज्जइ ॥सू० ३॥
__छाया-यो भिक्षुः अङ्गादानं संवाहयति वा परिमर्दयति वा संवाहयन्तं वा परिमर्दयन्तं वा स्वदते ॥ सू० ३ ॥
चूर्णी-'जे भिक्खू अंगादाणं संवाहेज्ज वा' इति । 'जे भिक्खू' यो भिक्षुः मुनिः 'भंगादाणं' अङ्गादानम् पूर्वोक्तलक्षणम् 'संवाहेज्ज वा' संवाहयति वा सामान्येन मर्दयति 'पलिमद्देज्ज' वा परिमर्दयति विशेषेण मर्दयति 'संबाहंतं वा' संवाहयन्तं वा 'पलिमदंतं वा परिमर्दयन्तं वा 'साइज्जइ' स्वदते अनुमोदते स प्रायश्चित्तभाग्भवतीति ।
___ अत्र दृष्टान्तमाह--यथा सुखोपविष्टं सुप्तं वा सर्प कोऽपि मर्दयति हस्तपादादिना तदा स सर्पः स्वमर्दकस्य जीवितं विनाशयति तथैव मर्दितं पुरुषचिह्न मुनेश्चारित्रं ध्वंसयतीति भावः ।
For Private and Personal Use Only