SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चर्णिभाष्यावचूरिः उ० १२ सू० १६-१८ काष्ठ कर्मादि-वप्रादि-कच्छादिदर्शनेच्छानिषेधः २९१ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'कट्ठकम्माणि वा' काष्ठकर्माणि वा काष्ठनिर्मितप्रतिकृतिपुत्तलिकाविशेषलक्षणानि 'चित्तकम्माणि वा' चित्रकर्माणि वा-चित्रलिखितपुत्तलिकारूपाणि 'पोत्थकम्माणि बा' पुस्तकर्माणि वा-पुस्तकरूपाणि वनखण्डनिर्मितपुत्तलिकादिलक्षणानि वा 'लेप्पकम्माणि वा' लेप्यकर्माणि वा लेपनादिना निर्मितपुत्तलिकादिरूपाणि 'दंतकम्माणि वा' दन्तकर्माणि वा हस्तिदन्तादिनिर्मितवस्तूनि 'मणिकम्माणि वा' मणिकर्माणि वा चन्द्रकान्तमण्यादिनिर्मितानि वस्तूनि 'सेलकम्माणि वा' शैलकर्माणि वा प्रस्तरखण्डे चित्रितानि रूपाणि गंथिमाणि वा' प्रन्थिमानि वा ग्रन्थिनिर्मितपुत्तलिकादीनि 'वेढिमाणि वा' वेष्टिमानि वा वस्त्रादिभिर्वेष्टनं कृत्वा निर्मितानि वस्तूनि 'पूरिमाणि वा' पूरिमाणि वा तण्डुलादि प्रयित्वा निर्मितानि स्वस्तिकादीनि 'संघाइमाणि वा' संघातिमानि अनेकवत्रखण्डान् संयोग्य कृतानि 'पत्तच्छेज्जाणि वा' पत्रछेद्यानि वा कदल्यादीनां पत्राणि छित्वा निर्मितानि पुत्तलिकादीनि भ्रमरादिवत् छिद्राणि कृत्वा चित्रितानि 'विविहाणि वा' विविधानि-अनेकप्रकाराणि वा 'वेहिमाणि वा' वैधिकानि वा पत्रकाष्ठादिवेघनेन निर्मितानि 'कोरणी' इति भाषा प्रसिद्धकर्मणा कृतानि, एतानि पूर्वोक्तानि सर्वाणि 'चक्खुदंसणवडियाए' चक्षुर्दर्शनप्रतिज्ञया चक्षुषा दर्शनेच्छया 'अभिसंधारेइ' अभिसंधारयति चक्षुषा द्रष्टुं मनसि धारयति निश्चयं करोती. त्यर्थः 'अभिसंधारतं वा साइज्जई' अभिसन्धारयन्तं वा स्वदते अनुमोदते, यो हि श्रमणः काष्ठकर्मादीनि द्रष्टुं निश्चयं करोति तथा निश्चयं कुर्वन्तं योऽनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० १६॥ सूत्रम्-जे भिक्खू वप्पाणि वा फलिहाणि वा उप्पलानि वा पल्ललाणि वा उज्झराणि वा निज्झराणि वा वावीणि वा पोक्खरिणी वा दीहियाणि वा गुंजालियाणि वा सराणि वा सरपंतियाणि वा सरसरपंतियाणि वा चक्खुदंसणवडियाए अभिसंधारेइ अभिसंधारेंतं वा साइज्जइ ॥सू०१७॥ छाया-यो भिक्षुः वप्रान् वा परिखा वा उत्पलानि वा परवलानि वा उज्झरान् वा निर्झरान् वा वापीर्वा पुष्करिणीर्वा दीर्घिका वा गुंजालिका वा सरांसि वा सरःपंक्तीर्वा सरसरःपंक्तीर्वा चक्षुदर्शनप्रतिवया अभिसंधारयति अभिसंधारयन्तं वा स्वदते॥ चूर्णी--'जे भिक्खू, इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'वप्पाणि वा' वप्रान् क्षेत्राणि वा 'फलिहाणि वा' परिखा वा-खातविशेषान् ‘उप्पलाणि वा' उत्पलानि वा-उत्पलस्थानभूतान् जलाशयविशेषान् 'पल्ललाणिव' पल्वलानि वा, तत्र पल्वलानि क्षुद्र जलाशयाः तानि 'उज्झराणि वा उज्झरान् वा-उपरितः पतज्जलप्रवाहान् वा 'निग्झराणि वा' निझरान् वा For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy