SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir M ૨૭૮ निशीथस्त्रे छाया -- यो भिक्षुरचेलः सचेलकानां मध्ये संवसति संवसन्तं पा स्वदते ॥८९॥ चूर्णी:-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'अचेले' अचेलो जिनकल्पी. 'सचेलगाणं मज्झे' सचेलकानां स्थविरकल्गिकानां मध्ये समुदाये 'संवसइ' संवसति निवासं करोति 'संवसंतं व, साइज्जइ' संवसन्तं वा सचेलकानां समुदाये निवासं कुर्वन्तं स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू०८९॥ सूत्रम्--जे भिक्खू अचेले अचेलगाणं मज्झे संवसइ संवसंतं वा साइज्जइ ।।सू० ९०॥ छाया--यो भिक्षुरचेलोऽचेलकानां मध्ये संवसति संवसन्तं वा स्वदते ॥सू० ९०॥ चूर्णी:-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः 'अचेले' अचेलः-जिनकल्पिकः 'अचेलगाणं' अचेलकानां जिनकल्पिकानाम् ‘मज्झे' मध्ये 'संवसई' संवसति-निवास करोति 'संवसंत वा साइज्जई' संवसन्तं निवासं कुर्वन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति जिनकल्पिकस्य एकाकिविहारविधानात् । यतो जिनकल्पिकाः परस्य सहायतां नेच्छति-एकान्तवासस्यैव तेषां शास्त्रसिद्धत्वात् . एतादृशस्थितौ यदि जिनकल्पिको जिनकल्पिकानां मध्ये निवसति तदा तीर्थकृतामाज्ञा विराधिता भवति, अतो जिनकल्पिकः साधुः जिनकल्पिकानां मध्ये न वसेत् न वा वसंतमनुमोदेत शास्त्रमर्यादाभङ्गप्रसङ्गात् ॥ सू०९०॥ । सूत्रम्--जे भिक्खू पखिसियं पिप्पलिं वा पिप्पलिचुण्णं वा सिंगवेरं वा सिंगवेरचुण्णं वा विलं वा लोणं उब्भियं वा लोणं आहारेइ आहारेतं वा साइज्जइ ॥सू० ९१॥ छायायो भिक्षुः पर्युषितां पिप्पलिं पा पिप्पलिचूर्ण वा शृङ्गवेर वा शृङ्गवेरचूर्ण वा विलं वा लवगम् उद्भिदं वा लवणम् आहरति आहरन्तं वा स्वदते ॥ सू. ९१॥ ___चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'परिवसियं' पर्युषितम् , तत्र 'परिवसियं' नाम रात्रौ स्थापितं यत् तत् तादृशीम् 'पिप्पलिं वा' पिप्पलिं वा अचित्तपाचितपिप्पलीम् 'पिप्पलिचुण्णं वा' लघुपिप्पलीचूर्ण वा 'सिगंबेरं वा' शृङ्गबेरं वा शुष्कमादकं सुंठीति लोकप्रसिद्धम् 'सिंगबेरचण्णं वा' शृङ्गवेरचूर्ण वा सुंठीचूर्ण वा 'विलं वा लोणं' विलं वा लवणम् यत्र देशे लवणो न प्रादुर्भवति तत्रोषरमृत्तिकां पाचयित्वा लवणः संपाधते तादृशं लवणं विउलवणमिति कथ्यते 'उभियं वा लोणं' उद्भिदं वा लवणम् , तत्र उद्भिदलवणः स्वयं जायमानो यथा सैन्धवः, यः स्वस्वभावत एव संजातस्तम् । एवमादिकं पर्युषितं For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy