________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सम्यक्
। श्रीवीतरागाय नमः ।
जैनाचार्य - जैनधर्म दिवाकर - पूज्यश्री - घासीलाल- व्रतिविरचित - चूर्णि - बरिसमलङ्कृतम्
श्रीनिशीथसूत्रम्
प्रथमोद्देशः प्रारभ्यते
Acharya Shri Kailassagarsuri Gyanmandir
तत्र क्रमः
मूलं छायाऽथचूर्णी च तदन्ते भाग्यभाषणम् भाग्याऽवचूरिरन्ते स्यादित्थमत्र क्रमो भवेत् ।।
श्रीमङ्गलाचरणम्
अर्थप्रदं वीरजिनं प्रणम्य, लब्धेर्धरं गौतममाप्तशक्तिम् । श्रीघासिलालेन वितन्यते यद्, भाव्यादिकं चात्र निशीथसूत्रे ॥१॥
-भाष्याs
श्रीभगवन्महावीरभाषितागमेषु छेदसुत्राणि चत्वारि सन्ति, तत्र प्रथमं निशीथसूत्र वर्तते I तत्र पूर्व छेदसूत्रेति कोऽर्थः ? तत्राह - छेदनं छेदः खण्डनम् प्रस्तुते दूषित पर्यायस्य न्यूनीकरणं छेदः । यथा शेषशरीररक्षार्थ रोगादिदूषित शरीरैकदेशस्य छेदनमिव शेषपर्याय संरक्षणार्थं दूषित - पूर्वपर्यायस्य छेदात्वाच्छेदः, तदर्थप्रतिपादिकानि सूत्राणि छेदसूत्राणि प्रोच्यन्ते, तेष्विदं निशीथसूत्रं प्रथमं विद्यते ।
अथ निशीथेति शब्दस्य कोऽर्थ: : तत्राह - पापं निशद्यते शात्यते यत्र इति निशीथः ' शल शातने' इत्यस्मात् पृषोदरादित्वात् सिद्धम् १ | निर् निश्चयेन श्रुतं पठनमिति निशीथः २ । अथवा एतत्पठनमन्तरेण नितरां शुद्धाचारो नैव पालयितुं शक्यते तस्मादयं निशीथः ३ ।
अथवा - मोक्षमार्गप्रच्युतान् पुनरपि मोक्षमार्गमानीय पूर्वकृतकर्माणि तपोद्वारा निजीर्य प्रायश्चित्ताssतापे तापयित्वा निश्चयेन शोधयति आत्मानं यः स निशीथः ४ ।
For Private and Personal Use Only
अथवा – उन्मार्गगतान् निश्चयेन शुद्धिमार्गे स्थापयति इति निशीथः ५ । अथवा सम्यग्दर्शनज्ञान चारित्रत पोलक्षणं सुवर्ण प्रायश्चित्ताग्नौ संताप्य नितरां शोधयति इति निशीथः ६ ।