________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चूर्णिभाष्यावरिः उ. ११ सू.०-७०-७१ जिनोक्ताऽन्यप्रशंसनवैराज्यविरुद्धराज्यगमनादिनि २६९
अत्राह भाष्यकारः-- भाष्यम्-जरूवो जो भावो, भवेज्ज णियो य अण्णहा सो उ ।
___ भण्णइ किज्जइ लोए, विप्परियासो इमो होइ ॥१॥ छाया-यद्रूपो यो भावो भवेत् नियतश्च अन्यथा स तु ।
___ भण्यते क्रियते लोके, विपर्यासः अयं भवति ॥१॥
अवचूरिः-लोके यद्रूपो यादृशो भावो नियतः निश्चितो भवति स तु अन्यथा भण्यते, एतावदेव न किन्तु क्रियतेऽपि च अयं विपर्यासो भवतीति विपर्यासलक्षणम् ॥१॥
अथ विपर्यासस्य भेदान् उदाहरणांश्चः दर्शयति भाष्यकार:भाष्यम्-दव्ये खेत्ते काले, भावे य चउन्विहो विवज्जासो ।
कमसो वोच्छं तेसिं, नाणचं सत्यभासाए ॥१॥ दव्वे असोोगमाई, खेत्ते णगराइयं मुणेयव्वं ।
काले ओगाढ़ाई, भावे पुण निव्वुयाई य ॥२॥ छाया-द्रव्ये क्षेत्रे काले, भावे च चतुर्विधो विपर्यासः ।
क्रमशो वक्ष्ये सेषां, नानात्वं शास्त्रभाषया ॥२॥ द्रव्ये अशोकादि, क्षेत्रे नगरादिकं ज्ञातव्यम् ।
काले आगाढादि, भावे पुननिर्वृतादि च ॥३॥ अवचूरिः-योऽयं सूत्रद्वये विपर्यासः कथितः स द्रव्यक्षेत्रकालभावभेदेन- चतुर्विधः चतुःप्रकारको भवति । एषां द्रव्यक्षेत्रादिभेदभिन्नानां विपर्यासानां नानात्वं क्रमशः आनुपा शास्त्रभाषया शास्त्रोक्तभाषाविधिना वक्ष्ये कथयिष्यामि । तत्र द्रव्ये विपर्यासो यथा-अजानता पृच्छकेन पृष्टे किमपि अशोकादिकं वृक्षं प्रति निम्बादिकथनम् , निम्बादिकं प्रति अशोकादिकथनम् । क्षेत्रे विपर्यासः-हस्तिशीर्षनगरस्य हस्तिनागपुरत्वेन कथनम् , अथवा तद्विपरीतकथनम् २, काले विपर्यासः-आगाढं-प्राप्तं पौरुष्यादिकालं प्रति अनागाढमप्राप्तं कालं कथयति, तद्विपरीतं वा कथयति ३, भावे विपर्यासः-स्वकमनिर्वृतं निर्वृतत्वेन दर्शयति, परं निर्वृतमपि अनिवृतं प्रकाशयति । एवं तपस्विनमतपस्विनम् , अतपस्विनं तपस्विनं कथयतीत्यादि । एवमादिशब्दात् क्षमादिविषयेऽपि भावा ज्ञातव्याः ४, एवं यः कश्चिद् भिक्षुश्चतुर्विधेन विपर्यासेन एतादृशेन अन्येन वा केनापि विपर्यासेन आत्मानं परं वा विपर्यासयति विपर्यासयन्तं वा अनुमोदते स प्रायश्चित्तभागी भवति ॥ सु. ६९॥
सूत्रम्-जे भिक्खू मुहवणं करेइ करेंतं वा साइज्जइ ॥सू० ७०॥ छाया-यो भिक्षुर्मुखवणं करोति कुर्वन्तं वा स्वदते ॥ सू० ७० ॥
For Private and Personal Use Only