SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २१६ निशीथसूत्रे 'परं परं स्वस्मादन्यम् 'बीहावेइ' भापयति परस्मै भयं समुत्पादयति तथा 'बीहारेंतं वा साइज' भापयन्तं भयं समुत्पादयन्तमन्यं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति । - Acharya Shri Kailassagarsuri Gyanmandir अत्राह भाष्यकार: भाष्यम् - भयं चउव्विहं बुतं दिव्यमाणुसतेरियं । आकहियं च एक्केक्कं संतासंतं पुणो दुहा ॥१॥ छाया---भयं चतुर्विध प्रोक्तं दिव्यमानुषतेरश्चम् । आकस्मिकं च पकैकं सदसत् पुनर्द्विधा ॥१॥ - " " अवचूरिः - भयं चतुर्विधं चतुःप्रकारकं भवति तथाहि - दिव्यं - देवसम्बन्ति, मानुषं मनुष्यसम्बन्धि, तैरश्चं- तिर्यक्सम्बन्धि, तत्र पिशाचादिव्यन्तरजनितं भयं दिव्यम्, स्तेनादिभिजयमानं भयं मानुषं, तथा पृथिव्यप्तेजोवायुवनस्पतिसिंहादिभ्यो जायमानं भयं तैर - श्वम्, तथा चतुर्थं भयमाकस्मिकं निर्हेतुकम् । एकैकं भयं पुनरपि द्विप्रकारकं भवति सत्विद्यमानम्, असत् - अविद्यमानं, भयं द्विविधं सद्रूपेण असद्रूपेण च तत्र पिशाचस्तेनजला दिसिंहादिकेषु समुपस्थितेषु दृष्टेषु च यद् भयं समुत्पद्यते तत्सद्रूपं भयम्, यद् एतेषु अदृष्टेष्वपि भयं जायते तत् अद्रूपं भयम् । आकस्मिकम् - अकस्माद् भयम् आत्मसमुत्थं मोहनीयभयप्रकृत्युदयात् यद् अविधमानं सत् समुत्पयते तदाकस्मिकं भयम् इदं भयकारणसंकल्पिताभिप्रायोत्पन्नं भवतीति । अत्र शिष्यः प्राह - भो गुरो ! शास्त्रे तु इहलोकादिकं सप्तविधं भयं कथितं, तद्यचा - इहलोकभयम् १ परलोकभयम् २, आदानभयम् ३, आजीविकाभयम् ४, अकस्माद्भयम् ५, मरणभयम् ६, अश्लोकभयं चेति । तत्कथमत्र चतुर्विधमेव भयं प्रतिपाद्यते ? इति । एवं शिष्येण पृष्ट आचार्यः प्राह - भोः शिष्य ! यद्यपि सप्तप्रकारकं भयं तथापि सप्तानामपि चतुर्व्वेवान्तर्भाव संभवादत्र चतुर्विधं प्रोक्तम्, तथाहि - इहलोकभयं मनुष्यभये समाविष्टं भवति १, परलोकभयं देवभये तिर्यग्भये च समाविशति २, आदानभयमाजीविकाभयं मरणभयम् अश्लोकभयं चेति भयचतुष्टयमपि दिव्यमानुषतैरश्चरूपे भयत्रये यथायथं समाविष्टं भवति ६, यतः आदानेन हस्तस्थितेन वस्तुना भयं 'हस्तगतं मे वस्तु देवमनुजतिर्यश्वो मा ह्रियेरन्' इत्येवं रूपं भयमादानभयम्, तथा आजीविका नाम वृत्तिः, सा च वृत्तिर्देवमनुजतिर्यगधीना, तथा मरणं प्राणपरित्यागः, सदपि दिव्यमनुजतिर्यग्भवावस्थितस्यैव भवति, अकस्मात्कारणात् दिव्यादिभ्यस्त्रिभ्य एव मरणभयं भवति ६, अश्लोकभयमपि दिव्यमनुजतिर्यक्ष्वेव संभवति ७, तस्मात्कारणात् भयचतुष्टये सप्तानामपि भयानां समावेशो भवति । तथा च राक्षसपिशाचादिजन्यं भयं दिव्यभयम् १ स्तेनादि - कभयं मनुजभयम् २- उदकादिसिंहादिभयं तिर्यग्भयम् २, मोहनीयप्रकृत्युदयजन्यमात्मसमुत्थमाकस्मिक भयम् ४, अस्माच्चतुर्विधभयमध्यादन्यतमभयेन स्वात्मानं परं वा तदुभयं च भापयति For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy