________________
Shri Mahavir Jain Aradhana Kendra
२५४
छाया
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- आचारस्य च द्वितीये श्रुतस्कन्धे तस्य तृतीयेऽध्ययने । तस्यापि प्रथमोद्देशे, तत्रापि पुनरादिसूत्रे च ॥१॥
(ईर्याध्ययने) यद् भणितं दशमोद्देशे तत् निरवशेषम् । वर्षावासविहारे, अत्र निशीथे ज्ञातव्यम् ||२||
For Private and Personal Use Only
निशीथसूत्रे
अवचूरि : --- आचाराङ्गसूत्रस्य द्वितीयश्रुतस्कन्धे तदधिकृत्य तृतीयाध्ययने आदितो द्वादशाध्ययने तत्रापि प्रथमोदेशके तत्रापि आदिसूत्रे ईर्यायामिति ईर्याध्ययने यत्कथितं तन्निरवशेषं वर्षावासविषये अत्र निशीथसूत्रे दशमोद्देशे ज्ञातव्यम् । तत्राचाराङ्गसूत्रप्रकरणं यथा"अorary खलु वासावा से अभिप्प बहवे पाणा अभिसंभूया बहवे बीया अणुभिण्णा, अंतरा से मग्गा बहुप्पाणा बहुबीया जाव संताणगा अण्णोककंता पंथा, नो विन्नाया मग्गा सेवं पच्चा णो गामाशुगामं दूइज्जेज्जा तओ संजयामेव वासावासं उबल्लिएज्जा" | अभ्युपगते खलु वर्षावासे अभिप्रवृष्टे बहवः प्राणाः अभिसंभूताः, बहूनि बीजानि अधुनोद्भिन्नानि, अन्तरा तस्य मार्गा बहुप्राणा बहुबीजा यावत् संतानकाः अनुक्रान्ताः पन्थानः नो विज्ञाता मार्गाः, तदेवं ज्ञात्वा नो ग्रामानुप्रामं द्रवेत् । ततः संयत एव वर्षावासं उपयेत, इति च्छाया । वर्षाकाले ग्रामानुग्रामविहारे संयमात्मविराधना दर्श्यते वर्षाकाले समायाते बहवो वनस्पतिकायाः प्रादुर्भवन्ति, मार्गाश्च पिच्छलाः सकर्दमा भवन्ति, तथा मार्गोपरि वनस्पतीनामुत्पादात्तत्र मार्गा अपि सम्यग् न ज्ञायन्ते अतो वर्षाकाले साधुर्न विहारं कुर्यात्, न वा कुर्वन्तमनुमोदयेत् किन्तु एकस्मिन् ग्रामे चातुर्मास्यं निवस्य श्रुतचारित्रलक्षणं धर्म समाराधयेदिति भावः । (आचाराङ्ग ० श्रुत० २ ईर्याख्यमध्ययनम् ३ सूत्रम् १) संयमविराधनमात्मविराधनं च तत्र संयमविराधनमित्थम् - अक्षुण्णा अमर्दिता जलप्रवहणेन पृथिवी स्खण्डिता भवति ततश्च पृथिवी सचित्ता भवति तत्र विहारं कुर्वतो वनस्पतिकायिकानां पृथिवीकायिकानां च विराधना भवति, एवं जलं द्विविधं वर्षोदकम् भूभ्युदकं च, तत्र चलन् अप्कायिकजीवानामपि विराधनं भवति । तथा वर्षाकाले कुन्धुप्रभृतिका अनेके त्रसा जीवाः प्रादुर्भवन्ति इति वर्षाकाले विहारे कृते सति सूक्ष्मत्वाददृश्यमाना एते कुन्थुप्रभृतिका जीवा विराधिता भवन्ति इत्थं तद्विराधनेन संयमोपघातो भवतीति संयमविराधनम् । आत्मविराघनं चेत्थम् - वर्षाकाले यदि विहारं करोति तदा वृष्ट्या शरीरं प्लावितं स्यात्, एवं वर्षणात् मार्गः पिच्छलो भवति तत्र चलनेन कदाचित् पतनमपि संभवेदिति ततोऽपि आत्मविराधनं भवति, तस्मात् कारणात् चातुर्मासे श्रमणो प्रामानुग्रामं न विहरेत् न वा विहरन्तमनुमोदयेत् ॥सू० ४२॥
सूत्रम् - जे भिक्खू अपज्जासवणाए पज्जोसवेइ पज्जोसवेंतं वा साइज्जइ ॥ सू० ४३॥